SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथमं पर्व चतुर्थः सर्गः ॥९९॥ ऋषभजिनभरतचक्रिचरितम् । सिन्धुसागरवैताव्यसीमानं सिन्धुनिष्कुटम् । दक्षिणं साधयोत्तीर्य, चर्मरत्नेन निम्नगाम् ॥ २४९॥ बदरीवणवत् तत्र, म्लेच्छानायुधयष्टिभिः । ताडयित्वा चित्ररत्नसर्वखफलमाहरेः॥ २५॥ - ततः स सेनाधिपतिर्मृगाधिपतिरोजसा । तेजसा तेजसांनाथो, घिर्षणो धिषणागुणैः॥ २५१॥ निम्नानां निष्कुटानां च, जलस्थलभुवामपि । अन्येषामपि दुर्गाणां, तज्जन्मेव प्रचारवित् ॥ २५२॥ सम्पूर्णलक्षणः सर्वम्लेच्छभाषाविचक्षणः । शिरसा शासनं भर्तुस्तत्प्रसादमिवाऽऽददे ॥ २५३ ॥ [त्रिभिर्विशेषकम् ] : प्रणम्य स्वामिनं गत्वा, स्वावासे निदिदेश सः। सामन्तादीन् प्रयाणाय, प्रतिच्छन्दानिवाऽऽत्मनः॥२५४॥ अथ स्नात्वा कृतबलिमहाग्रंखल्पभूषणः । संवर्मितः कृतप्रायश्चित्तकौतुकमङ्गलः ॥ २५५ ॥ जयश्रियाऽऽलिङ्गनाय, प्रक्षिप्तामिव दोलताम् । रत्नप्रैवेयकं दिव्यं, धारयन् कण्ठकन्दले ॥ २५६ ॥ शोभितश्चिह्नपट्टेन, पट्टद्विप इवोच्चकैः । गृहीताखः कटौ बिभ्रन्मृता शक्तिमिव क्षुरीम् ॥ २५७॥ विभ्राणः स्वर्णतूणीरावतुच्छो सरलाकृती । पृष्ठतोऽपि रणं कर्तुं, दोर्दण्डाविव वैक्रियौ ॥ २५८ ॥ गणनेतृदण्डनेतृश्रेष्ठिभिः सार्थवाहिभिः । सन्धिपालचराद्यैश्च, युवराज इवाऽऽवृतः ॥२५९ ॥ आरुरोह स सेनानीर्गजरत्नं नगोतम् । निश्चलानासनस्तेनाऽऽसनेन संहभूरिव ॥ २६०॥ [षभिः कुलकम् ] *त्तीर्यमां नदी रत्नचर्मणा खंता ॥ १ सूर्यः। २ बृहस्पतिः ३ बुद्धिगुणैः। ४ मार्गवेत्ता। ५ प्रतिविम्बरूपान् । ६ महामूल्यस्वल्पाभरणः। . रखमय ग्रीवाभरणम् । ८ प्रधानहस्ती। ९ पर्वतोन्नतम् । १. सहजातः इव । भरतख दिग्विजयः। ॥ ९९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy