SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते चतुर्थः सर्गः ॥९८॥ ऋषभजिनभरतचक्रिचरितम् । ततो जयजयेत्याशीःपूर्वकं सा नभःस्थिता । इत्यूचेञाऽस्मि ते चक्रिन्, किङ्करी करवाणि किम् ? ॥२१९॥ श्रीदेव्या इव सर्वस्खं, निधीनामिव सन्ततिम् । साऽष्टोत्तरं रत्नकुम्भसहस्रं भृभुजे ददौ ॥ २२०॥ सहोद्वोढुं प्रकृतयोरिव कीर्तिजयश्रियोः । योग्ये नृपतयेऽयच्छद्, रत्नभद्रासने च सा ॥ २२१॥ नागराजशिरोरत्नान्युद्धृत्येव विनिर्मितान् । दीपरत्नमयान् राजे, सा ददौ वाहुरक्षकान् ॥ २२२ ॥ मध्योत्कीर्णार्कबिम्बाभानदत्त कटकांश्च सा । मृदूनि मुष्टिग्राह्याणि, दिव्यानि वसनानि च ॥ २२३ ॥ तत्सर्व प्रतिजग्राह, स सिन्धोः सिन्धुराडिव । तां स प्रसादालापेन, प्रमोद्य विससर्ज च ॥ २२४ ॥ अथाऽभिनवराकेन्दुसोदरे स्वर्णभाजने । चकाराऽष्टमभक्तान्तभोजनं भूभुजां विभुः ॥२२५॥ सिन्धुदेव्या नरदेवो, विदधेऽष्टाहिकोत्सवम् । दर्यमानपथश्चक्रेणाऽग्रेग्वेव चचाल च ॥ २२६ ॥ दिशोदक्पूर्वया गच्छन् , क्रमेण भरतेश्वरः। भरतार्द्धद्वयाघाट, पाप वैताठ्यपर्वतम् ॥ २२७ ॥ नितम्बे दक्षिणे तस्य, स्कन्धावारं न्यवीविशत् । अन्तरीयमिव क्षमापो, विस्तारायामशोभितम् ॥२२८ ॥ चकाराऽष्टमभक्तं च, तत्र विश्वम्भरापतिः । वैताख्याद्रिकुमारस्य, पर्यकम्पिष्ट चाऽऽसनम् ॥२२९॥ उत्पन्नो भरतक्षेत्रे, प्रथमश्चक्रवर्त्यसौ । इत्यज्ञासीदवधिना, वैताठ्याद्रिकुमारकः॥२३०॥ अथाऽभ्यगात् स भरतं, व्योमस्थश्चाऽब्रवीदिदम् । प्रभो ! जय जयेषोऽस्मि, सेवकस्ते प्रशाधि माम् २३१ स महाया॑णि रत्नानि, रत्वालङ्करणानि च । देवदृष्याणि च राजे, कोशायुक्त इवाऽऽर्पयत् ॥ २३२ ॥ भद्रासनानि भद्राणि, भूयास्थवनिशासिने । प्रतापसम्पदः क्रीडावेश्मानि विततार सः॥ २३३ ॥ अभिनवपूर्णिमाचन्द्रसदशे। २ अप्रगामिना । ३ भरतार्द्धद्वयसीमानम् । ४ पृथ्वीपतिः । भरतस्य दिग्विजयः। ॥९८॥ Jain Education Internatie For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy