SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथम पर्व चतुर्थ: सगे: ऋषभजिनभरतचक्रिचरितम् । ॥९७॥ महीपतेरुपददाववदातोद्यतद्युतिम् । रत्नाकरस्य सर्वखमिव रत्नोत्करं च सः॥ १९० ॥ तत् सर्वमग्रहीद् राजाऽन्वग्रहीद् वरदामपम् । अस्थापयच तत्रैव, तं कीर्तनमिव स्वकम् ॥ १९१॥ वरदामेशमाभाष्य, सप्रसादं विसृज्य च । जगाम जगतीनाथो, विजयी शिबिरं निजम् ॥ १९२ ॥ अवतीर्य रथात् स्नात्वाऽष्टमभक्तान्तपारणम् । चक्रे समं परिजनैः, स राजरजनीकरः ॥ १९३ ॥ वरदामाधिपस्याऽथ, स चक्रेऽष्टाह्निकोत्सवम् । लोके महत्त्वदानाय, महन्त्यात्मीयमीश्वराः ॥ १९४॥ - प्रति प्रतीची प्राचीनबर्हिरन्य इवौजसा । चक्री चक्रानुगोऽचालीत् , प्रभासाभिमुखं ततः॥१९५॥ पूरयन रोदसीरन्ध्र, नीरन्धैः सैन्यरेणुभिः । स प्रयाणैः कतिपयैः, पयोधि प्राप पश्चिमम् ॥ १९६॥ ततः क्रऍकताम्बूलीनालिकेरीवनाकुले । स्कन्धावारं विनिदधे, स रोधस्यपरोद॑धेः॥ १९७॥ प्रभासनाथमुद्दिश्याऽष्टमभक्तं व्यधात ततः। राजा जग्राह च प्राग्वत, पौषधं पौषधौकसि ॥ १९८॥ पौषधान्ते समारुह्य, स्यन्दनं मेदिनीपतिः । प्रविवेश पयोराशि, पाशपाणिरिवाऽपरः ॥ १९९॥ अतिक्रम्य जलं चक्रनाभिदघ्नं महीपतिः । स्यन्दनं धारयामासाधिज्यं च विदधे धनुः ॥२०॥ जयश्रीकेलिवल्लंक्या, धनुर्यष्टेर्विशांपतिः। पाणिना वादयामास, मौवीं तत्रीमिवोच्चकैः ॥२०१॥ शरं चकर्ष शेरीरधेत्रदण्डवत् । आसयच्च नृपो बाणासनेऽतिथिमिवाऽऽसने ॥ २०२॥ ततःप्रभासाभिमुखं, तं चिक्षेप शिलीमुखम् । आदित्यबिम्बादाकृष्टमिवैकं किरणं नृपः ।। २०३॥ कीर्तिकारकमिव । २ राजचन्द्रः। ३ पूजयन्ति । ४ इन्द्रः। ५ द्यावाभूमी । ६ घनैः । ७ पूगवृक्षाः । ८ पश्चिमसमुद्रस्य । ९ वरुणः । १० रथाङ्गनाभिप्रमाणम् । ११ जयलक्ष्मीक्रीडावीणायाः। १२ निषङ्गात् । १३ वृक्षविशेषः । भरतस्य दिग्विजयः। ॥९७॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy