SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ कुष्ठीवोत्पन्नवैराग्यो, जीवितव्यस्य कोऽथवा ? | चिक्षेप यो रभसया, मम पर्षदि पत्रिणम् ॥ १७५ ॥ तमनेनैव बाणेन, हन्मीति वरदामराट् । उत्थाय पाणिना बाणं, तं कोपग्रहिलो ग्रहीत् ॥१७६ ॥ मागधाधीश्वर इव, वरदामेश्वरस्ततः । तानि तत्राऽक्षराणीक्षाञ्चक्रे पत्रिणि चक्रिणः॥१७७ ॥ तान्यक्षराणि सम्प्रेक्ष्या हिर्नागदमनीमिव । वरदामपतिः सद्योऽप्यशाम्यदिति चाऽब्रवीत् ॥ १७८ ॥ मण्डके इव कृष्णाहेश्चपेटां दातुमुद्यतः । प्रजिहीर्षुर्विषाणाभ्यामुरभ्र इव दन्तिनः ॥१७९ ॥ पिपातयिषुरुवीभ्रं, दशनाभ्यामिव द्विपः । मन्दधीभरतेनामि, युयुत्सुश्चक्रवर्तिना ॥ १८ ॥ भवत्वद्यापि नो किञ्चिद्, विनष्टमिति स ब्रुवन् । उपायनान्युपानेतुं, दिव्यानि खान् समादिशत् ॥१८॥ ततस्तं शरमादाय, प्राभृतान्यद्भूतानि च । आर्षभिं सोऽभ्यगादिन्द्र, इव श्रीऋषभध्वजम् ॥१८२॥ स नत्वा तमुवाचैवमद्य मापुरुहूत ! ते । दृतेनेव समाहूतः, पत्रिणाऽहमिहाऽऽगमम् ॥ १८३ ॥ त्वामिहाऽऽयातमुवीश!, न स्वयं यदुपागमम् । सहस्व मे तदज्ञस्य, निडुते दोषमज्ञता ॥ १८४ ॥ श्रान्तेनेवाऽऽश्रमः पूर्ण, तृषितेनेव पल्वलम् । स्वामिन्नस्वामिना स्वामी, मया प्राप्तोऽसि सम्प्रति ॥१८५॥ अद्य प्रभृति भूनाथ !, स्थापितोऽहमिह त्वया । स्थास्यामि भवतो वेलाधरो गिरिरिवोदधेः ॥ १८६ ॥ इत्युक्त्वा भरतेशाय, निर्भरं भक्तिभागसौ । अर्पयामास तं वाणं, न्यासीकृतमिवाऽग्रतः ॥ १८७ ॥ कटीसूत्रं रत्नमयं, रोचीरोचितदिङ्मुखम् । राज्ञः सोऽदात तिग्मरोची रोचिभिरिव गुम्फितम् ॥ १८८॥ पुरतो भरतेशस्य, ढोकयामास चोज्वलम् । मुक्ताराशिं यशोराशिमिव खं चिरसञ्चितम् ॥ १८९॥ भेकः । २ भकाभ्याम् । ३ मेषः । ४ पर्वतम् । ५ भरतम् । ६ हे पृथ्वीन्द!। . लघुजलाशयः । त्रिषष्टि. १७ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy