________________
Aauoon euosamang
One
p
er
आकर्णाकृष्टकोदण्डानिर्यातं ते शिलीमुखम् । अलम्भविष्णुः कः सोढुं, विडोजस इवाऽशनिम् ॥१४४॥ प्रसादं कुर्वता त्वेष, प्रमत्तस्य मम त्वया । कर्त्तव्यज्ञापनायेषुः, प्रैषि वेत्रिपुमानिव ॥ १४५॥ अतः परमहं नाथ !, महीनाथशिरोमणे! | शिरोमणिमिवाऽऽज्ञां ते, धारयिष्यामि मूर्धनि ॥ १४६॥ वामिन् ! मागधतीर्थेऽस्मिन् , स्थास्याम्यारोपितस्त्वया । तवैव प्राग्जयस्तम्भ, इव निर्दम्भभक्तिभाक्॥१४७॥ एते वयमिदं राज्यमेष सर्वः परिच्छदः । त्वदीयमेवाऽन्यदपि, शाधि नः पूर्वपत्तिवत् ॥ १४८ ॥ इत्युक्त्वा सोऽर्पयामास, चक्रिणे पत्रिणं सुरः । तच्च मागधतीर्थाम्भः, किरीटं कुण्डले अपि ॥ १४९॥ तच्च राजा प्रतीयेष, मागधाधिपतिं च तम् । सञ्चकार महान्तो हि, सेवोपनतवत्सलाः ॥१५॥
अथो रथं वालयित्वा, पथा तेनैव पार्थिवः । स्कन्धावारं निजमगाव , सुत्रामेवाऽमरावतीम् ॥१५१॥ अवरुह्य रथादङ्ग, प्रक्षाल्य सपरिच्छदः । चकाराऽष्टमभक्तान्तपारणं भरतेश्वरः॥१५२ ॥ तदा मागधनाथस्य, महद्धा वसुधाधवः । चक्रस्येवोपनतस्य, विदधेऽष्टाहिकोत्सवम् ॥१५३ ॥ ____ आदित्यस्यन्दनस्रस्तमिव तेजोभिरुल्वणम् । अष्टाहिकोत्सवान्ते च, चक्ररत्नं चचाल खे ॥१५४ ॥ दक्षिणस्यां वरदामतीर्थ प्रति ययौ ततः । चक्रं तच्चक्रवर्ती च, धातुं प्रादिरिवाऽन्वगात् ॥ १५५ ॥ प्रयाणैः प्रत्यहं गच्छन् , राजा योजनमात्रकैः । दक्षिणाब्धि क्रमात् प्राप, मानसं राजहंसवत् ॥ १५६॥ एलालवङ्गलवलीककोलबहले नृपः । सैन्यान्यावासयामास, दक्षिणाम्भोधिरोधसि ॥ १५७ ॥ आवासान् सर्वसैन्यस्य, पौषधौकश्च वर्द्धकिः । पूर्ववद् रचयामास, शासनाच्चक्रवर्तिनः ॥ १५८॥ वरदामामरं चित्ते, कृत्वाऽष्टमतपोऽकरोत् । नृपतिः पौषधागारे, पौषधं च समाददे ॥१५९ ॥
**A*GARASHURIAS
*