SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व चतुर्थः सर्गः ऋषभजिनभरतचक्रिचरितम् । महासाराण्युदाराणि, तत्र पत्रिणि मत्रिराट् । दीव्यमन्त्राक्षराणीवेत्यक्षराणि व्यलोकयत् ॥ १२९॥ राज्येन यदि वः कार्य, जीवितव्येन वा यदि । ततः सेवां कुरुध्वं नः, स्वसर्वखोपढौकनात् ॥ १३०॥ इत्यादिशति वः साक्षात् , सुरासुरनरेशितुः । ऋषभस्वामिनः सूनुर्भरतश्चक्रवर्त्ययम् ॥ १३१ ॥ मत्री दृष्ट्वाऽक्षराण्येवं, विज्ञायाऽवधिना च तत् । दर्शयन् स्वामिनो बाणमुच्चकैरित्यवोचत ॥ १३२॥ भो भोः सर्वे राजलोका!, धिग् वो रभसंकारिणः । स्वामिनोऽर्थधियाऽनर्थदायिनो भक्तमानिनः॥१३३॥ भरतो भरतक्षेत्रे, प्रथमश्चक्रवर्त्यभूत् । सूनुः प्रथमतीर्थेशऋषभस्वामिनो ह्ययम् ॥१३४ ॥ स एष याचते दण्डं, दिधारयिपते च वः । पाकशासनवच्चण्डशासनः शासनं निजम् ॥ १३५ ॥ अपि शोप्येत पाथोधिर्मेरुरप्युद्रियेत च । कृतान्तोऽपि निहन्येतोत्क्षिप्येताऽपि वसुन्धरा ॥ १३६॥ दम्भोलिरपि दल्येत, विध्याप्येताऽपि वाडवः । कथश्चन न जीयेत, चक्रवर्ती महीतले ॥१३७॥ [युग्मम्] देवाऽयं वार्यतां लोकः, स्तोकधी(मतांवरः । प्रगुणीक्रियतां दण्डश्चक्रिणे प्रणतो भव ॥ १३८॥ __ आकर्ण्य मत्रिवाचं तां, दृष्ट्वा तान्यक्षराणि च । गन्धेभगन्धमाघ्राय, करीव प्रशशाम सः ॥ १३९ ॥ उपायनमुपादाय, तं चेषु मागधाधिपः । उपेत्य भरताधीशं, नत्वा चैवं व्यजिज्ञपत् ॥ १४॥ दिष्ट्या दृष्टिपथं प्राप्तोऽस्यधुना मम भूपते ! । स्वामिन् ! कुमुदखण्डस्य, शशाङ्क इव पार्वणः ॥१४१॥ भगवानृषभखामी, प्रथमस्तीर्थकृद् यथा । प्रथमश्चक्रवर्ती त्वं, तथा विजयसे भुवि ॥ १४२ ॥ सुरेभस्य प्रतीभः को?, वायोः प्रतिबली च कः?। नभसः प्रतिमानं कः?, प्रतिमल्लश्च तेऽस्तु कः?॥१४३॥ साहसकारिणः । २ धारयितुमिच्छति । ३ इन्द्रवत् । ४ वडवाग्निः । ५ अल्पबुद्धिः । भरतस्य दिग्जयार्थ प्रयाणम् । स्वामिन् ! कुमुदखलजियसे भुवि ॥ १४॥१४॥ ॥९५॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy