SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ताडयन्नासनं वामहस्तेनाऽरिकपोलवत् । वाचं विषार्चिःसंधीचीमित्यूचे मागधाधिपः ॥ ११५॥ [चतुर्भिः कलापकम् ]] ऐरावणरदांछित्त्वा, कस्ताडङ्कान चिकीर्षति ? । सौपर्णेयस्य कः पक्षरवतंसान विधित्सति ॥ ११६ ॥ कः पन्नगपतेमौलिमणिमालां जिघृक्षति ? । सहस्रदीधितेः को वा, हयानपि जिहीर्षति ? ॥ ११७ ॥ अप्रार्थितप्रार्थकः को, वीरमान्यविमृश्यकृत् । अस्माकमस्मिन् सदसि, प्रचिक्षेप शरं कुधीः ? ॥११८ ॥ सुपर्ण इव सर्पस्य, दर्प तस्य हराम्यहम् । एवं बुवाणो रभसादुत्तस्थौ मागधाधिपः॥ ११९ ॥ बिलादिवोरगं कोशात् , खड्गदण्डं चकर्ष सः । कम्पयामास च व्योम्नि, धूमकेतुभ्रमप्रदम् ॥ १२० ॥ वार्धिवेलेव दुर्वारः, परिवारोऽपि तत्क्षणम् । युगपत् सकलोऽप्यस्य, सकोपाटोपमुत्थितः॥१२१ ॥ खङ्गैः केचिद् दिवं चक्रुः, कृष्णविद्युन्मयीमिव । वसुनन्दैश्च विशदैरनेकेन्दुमयीमिव ॥ १२२ ॥ नितान्तनिशितान् कुन्तान् , खे केचिदुदलालयन् । कृतान्तदन्तशकलश्रेणीभिरिव निर्मितान् ॥ १२३ ।। परशून् केचिदुज्जर्वविजिह्वासहोदरान् । वर्भानुभीमपर्यन्तान् , जगृहुः केपि मुद्गरान् ॥ १२४ ॥ वज्रकोव्युत्कटान्यन्ये, शूलान्याददिरे करे । अपरे दण्डभृद्दण्डचण्डान् दण्डानुदक्षिपन् ॥ १२५ ॥ चक्रः केपि करास्फोटं, वैरिविस्फोटकारणम् । क्ष्वेडानादं व्यधुः केऽपि, मेघनादमिवोर्जितम् ॥ १२६॥ केचिजहि जहीत्यूचुः, केचिद् धर धरेति च । तिष्ठ तिष्ठेति केचिच्च, याहि याहीति केचन ॥ १२७ ॥ इत्यभृच्चित्रसंरम्भचेष्टो यावत् परिच्छदः । तस्य तावदमात्यस्तं, सम्यग् वाणं न्यरूपयत् ॥ १२८ ॥ १ विषज्वालातुल्याम् । २ कर्णभूषणविशेषान् । ३ अविचार्यकारी । ४ दरात् । ५ युद्धसाधनविशेषः । ६ राहुः। *न्यभालयत् खंता । Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy