________________
त्रिषष्टि
शलाका
पुरुचरिते
॥ ९४ ॥
Jain Education Interr
Iseli
प्रसरद्भिर्महीभर्त्तुर्नखरत्नमरीचिभिः । शुशुभे स महाबाणः, सोदरैरिव वेष्टितः ॥ १०१ ॥ आकृष्टकार्मुकान्तःस्थो, दीप्यमानः स सायकः । व्यात्तान्तकमुखप्रेङ्खजिह्वालीलामुपाददे ।। १०२ ।। धनुर्मण्डलमध्यस्थः, स मध्यमर्जगत्पतिः । शुशुभे परिवेषान्तैर्भानुमानिव दारुणः ॥ १०३॥ चालयिष्यति किं स्थानान्निग्रहीष्यत्यथैष माम् ? । इतीव चुक्षोभ तदा, सर्वतो लवणाम्बुधिः ॥ १०४ ॥ अथोवशो बहिर्मध्ये, मुखे पुखे च सर्वदा । नागासुरसुपर्णादिदेवताभिरधिष्ठितम् ॥ १०५ ॥ आज्ञाकरं दूतमिव, शिक्षाक्षरभयानकम् । अभि मागधतीर्थेशं, विससर्ज शिलीमुखम् ॥१०६॥ [ युग्मम् ] उद्दामपक्षचत्कारवाचालितनभोङ्गणः । निर्ययौ तत्क्षणं वेगात् स पत्री पत्रिराडिव ।। १०७ ॥ विद्युद्दण्ड इवाम्भोदादुल्काग्निर्गगनादिव । स्फुलिङ्ग इव सप्ताचैर्लेश्यार्चिरिव तापसात् ॥ १०८ ॥ शिखीव सूर्योपलतो, वज्रं वज्रिभुजादिव । निष्पतन्नृपकोदण्डादशोभत स सायकः ॥ १०९ ॥ [सन्दानितकम् ] योजनानि द्वादशाऽतिक्रम्य पत्री क्षणेन सः । सभायां मागधेशस्य, हृदि शल्यमिवाऽपतत् ॥ ११० ॥ अकाण्डैकाण्डपातेन तेन मागधतीर्थराट् | उच्चैश्रुकोप दण्डाभिघट्टनेनेव पन्नगः ॥ १११ ॥ चक्रीकुर्वन् भ्रुवोर्युग्मं, कोदण्डमिव दारुणम् । दधानश्चक्षुषी ताम्रे, दीप्ताग्निविशिखाविव ॥ ११२ ॥ भस्त्रापुटे इवोत्फुल्लीकुर्वाणो नासिकापुटे । स्फोरयन्नधरदलं, तक्षकाहेरिवाऽनुजम् ॥ ११३ ॥ ललाटे घटयन् लेखाः, केतू निव नभस्तले । गृह्णन् दक्षिणहस्तेन, वार्त्तिकोऽहिमिवाऽऽयुधम् ॥ ११४ ॥
१ प्रसारितयममुखचलजिह्वालीलाम् । २ पृथ्वीपतिः । * चकाशे खंता ॥ ३ मण्डलान्तः स्थितः सूर्य इव । ४ गरुडः । ५ अझेः । सूर्यकान्तादिव शिखी व खंता ॥ ६ अग्निः । ७ अकस्माद् बाणपातेन । ८ दण्डताडनेन । ९ गारुडिकः ।
For Private & Personal Use Only
प्रथमं पर्व
चतुर्थः
सर्गः
ऋषभजिन
भरतचक्रि
चरितम् ।
भरतस्य
दिग्जयार्थ
प्रयाणम् ।
॥ ९४ ॥
www.jainelibrary.org.