________________
अष्टमान्ते नृपः पूर्णपौषधः पौषधौकसः । शरदभ्रादिवाऽऽदित्यो, निर्ययावधिकद्युतिः॥ ८७ ॥ राजा सर्वार्थनिष्णातः, स्नातो बलिविधि व्यधात् । यथाविधि विधिज्ञा हि, विस्मरन्ति विधिं न हि ॥८॥ उत्पताकध्वजस्तम्भ, प्रासादमिव जङ्गमम् । शस्त्रागारमिवाऽनेकशस्त्रश्रेणिविभूषितम् ।। ८९ ॥ चतुर्दिग्विजयश्रीणामिवाऽऽह्वानार्थमुच्चकैः । टणत्कारकृतो घण्टाश्चतस्रश्चारुविभ्रतम् ॥९॥ पवनैरिव जङ्घालैधीरः पञ्चाननैरिव । अश्वैः सनाथमध्यास्त, स रथं रथिनां वरः ॥ ९१॥
[त्रिभिर्विशेषकम् ] राज्ञो भावविशेषज्ञो, वासवस्येव मातलिः । नुनोद सारथी रथ्यान् , रश्मिचालनमात्रतः ॥९२॥ महाकरिगिरिस्तोमो, महाऽनोमकरोत्करः । विलोलहयकल्लोलश्चित्रशस्वाहिभीषणः ॥ ९३ ॥ उच्छलभूरजोवेलो, रथनिर्घोषगर्जितः । द्वितीय इव पाथोधिः, पाथोधिं प्रत्यगान्नृपः ॥ ९४॥ [युग्मम् ]| संवर्द्धिताम्बुनिर्घोषस्त्रस्तनक्रकुलारवैः । नाभिंदनं रथेनाऽम्भोऽम्भोनिधेः सोऽभ्यगाहत ॥ ९५॥ न्यस्सैकं लस्तके हस्तं, द्वितीयं त्वंटनीतटे । सोऽधिज्यं विदधे धन्व, पञ्चमीन्दुविडम्बकम् ॥ ९६॥ पाणिना किञ्चिदाकृष्य, धनुा भरतेश्वरः । धनुर्वेदोङ्कारमिवोचेष्टङ्कारमकारयत् ॥ ९७ ॥ पातालद्वारनिर्गच्छन्नागराजानुहारकम् । इषुधेराचकर्षेषु, निजनामाङ्कितं नृपः ॥ ९८ ॥ सिंहकर्णिकया मुष्ट्या, धृत्वा पुङ्खाग्रभागके । शिञ्जिन्यां निदधे बाणं, वज्रदण्डमरातिषु ॥ ९९ ॥ सौवर्णकर्णताडङ्कपद्मनालतुलास्पृशम् । आकर्णान्तं स आकर्पत, काञ्चनं तं शिलीमुखम् ॥१०॥ १ स्तमकरकुलशब्दैः। २ नाभिप्रमाणम् । ३ धनुर्मध्यभागे। ४ ज्यारोपणस्थाने । ५ धनुर्गुणे ।
Jain Education into
For Private & Personal use only
www.jainelibrary.org