________________
प्रथमं पर्व
त्रिषष्टि
शलाकापुरुषचरिते ॥९३॥
चतुर्थः
सगे: ऋषभजिनभरतचक्रिचरितम् ।
खच्छन्दं जाह्नवीतीरतले सिकतिलेऽलुठन् । भृत्या इव स्वामिनो ग्रे, वेसराश्चलकेसराः॥७२॥ केचिदाजहुरेधांसि, सरिदम्भांसि केचन । दूर्वादिभारकान् केचित् , केचिच्छाकफलादिकम् ॥७३॥ प्रचख्नुश्रुल्लिकाः केचित् , तन्दुलान् केऽप्यखण्डयन् । केचिदज्वालयन्नग्निमपचन् केचिदोदनम् ॥ ७४॥ सस्नुः केऽप्येकतस्तत्र, स्वोकसीवोज्वलैजलैः । स्नाता धूपैरधृपायन्, केऽप्यात्मानं सुगन्धिभिः ॥ ७५ ॥ केचिद् बुभुजिरे स्वैरं, पुरो भुञ्जानपत्तयः । सँह स्त्रीभिर्विलिलिपुः, केचिदङ्गं विलेपनैः ॥ ७६ ॥ नाऽमंस्त कटकायातं, कोऽप्यात्मानं मनागपि । लीलोपलभ्यसर्वार्थे, शिविरे चक्रवर्तिनः ॥ ७७ ॥ ___ अहोरात्रे व्यतिक्रान्ते, तस्मिन् पुनरपि प्रेगे । चक्ररत्नं जगामैकं, योजनं चक्रवर्त्यपि ॥ ७८ ॥ एवं योजनमानेन, प्रयाणेन दिने दिने । गच्छंश्चक्रानुगश्चक्री, मागधं तीर्थमासदत् ॥ ७९ ॥ नवयोजनविस्तारं, दैर्घ्य द्वादशयोजनम् । पूर्वाब्धिरोधसि नृपः, स्कन्धावारं न्यवीविशत् ॥ ८॥ आवासान् सर्वसैन्यानां, तत्र व्यधित वर्द्धकिः । एका पौषधशालां च, शालां धर्मैकदन्तिनः ॥ ८१॥ राजा पौषधशालायामनुष्ठानविधित्सया । उत्ततार करिस्कन्धात , पर्वतादिव केसरी ॥ ८२ ॥ तत्र संस्तारयामास, दर्भसंस्तारकं नवम् । राजा संयमसाम्राज्यलक्ष्मीसिंहासनोपमम् ॥ ८३ ॥ मागधतीर्थकुमारं, देवं मनसि कृत्य च । प्रपेदेऽष्टमभक्तं सोऽर्थसिद्धेारमादिमम् ॥ ८४ ॥ स धौतांशुकभृत् त्यक्तनेपथ्यस्रग्विलेपनः । त्यक्तशस्त्रः पुण्यपोषौषधं पौषधमाददे ॥ ८५॥ दर्भसंस्तारके तस्मिन्, प्रतिजाग्रत् स पौषधम् । निष्क्रियो नृपतिस्तस्थौ, सिद्धः पद इवाऽव्यये ।। ८६ ।। १ सिकतामये। *सनारीका वि सं २, आ॥ २ प्रातःकाले। ३ शिविरम् । ४ मोक्षे ।
भरतस्य दिग्जयार्थ प्रयाणम्।
Jain Education International
For Private & Personal use only
www.jainelibrary.org