________________
नृपोऽपि विपुलां गङ्गापुलिनोवीं निरन्तरैः । विविधैः सङ्कटीकुर्वनावासैर्विश्रमं व्यधात् ॥ ५८ ॥ क्षरत्करिमदाम्भोभिः, पङ्किला कूलमेदिनी । तदा मन्दाकिनीनद्याः, प्रावृट्काल इवाऽभवत् ॥ ५९॥ जाह्नवीस्रोतसि खच्छे, स्वच्छन्दं जगृहुस्ततः । वारीणि वारणवरा, वारिधौ वारिदा इव ॥६॥ अतिपारिप्लवत्वेनोत्प्लवमाना मुहुर्मुहुः । तत्र सस्नुस्तुरङ्गाश्च, तरङ्गभ्रमदायिनः ॥ ६१ ॥ सम्प्रविष्टैः श्रमादन्तर्गजाश्वमहिषोक्षभिः । जातनूतनंनव, चक्रे विष्वक् सरिद्वरा ॥ ६२॥ अनुकूलयितुं कूलस्थितं नृपमिवाऽञ्जसा । श्रमं गङ्गाज्हरच्चम्बास्तरङ्गोद्भूतसीकरैः ॥ ६३ ॥ महीभुजः सेव्यमाना, महत्या सेनया तया । कुशीवभूव गङ्गाऽपि, सद्यः कीर्तिखि द्विषाम् ॥ ६४ ॥ तत्सैन्यगजराजानामयलालानतां ययुः । भागीरथीतीररुहो, देवदारुमहीरुहाः ॥ ६५ ॥ अश्वत्थसल्लकीकर्णिकारोदुम्बरपल्लवान् । लुलुवुः पशुभिर्हस्तिकृते हेस्तिपकाः क्षणात् ॥ ६६ ॥ कुर्वाणास्तोरणानीवोन्नमितेः कर्णपल्लवैः । विरेजुर्वाजिनो बद्धाः, श्रेणीभूताः सहस्रशः ।। ६७ ॥ मैकुष्ठ-मुद्ग-चणक-यवादीनि जवात् पुरः । बन्धूनामिव निदधुरश्वानामश्वपालकाः ॥ ६८॥ बभूवुः शिबिरे तत्र, चत्वराणि त्रिकाणि च । आपणानां श्रेणयश्च, विनीतायामिव क्षणात् ॥ ६९॥ गुप्यद्गुरुस्थूलपटकुटीभिः पटचारुभिः । नासरन् पूर्वसौधानां, सुस्थिताः सर्वसैनिकाः ॥७॥ शमीकर्कन्धुबब्बूलपायान् दूंन लिलिहुर्मयाः। दिशन्त इव सैन्यानां, कार्य कण्टकशोधनम् ॥ ७१॥
तटमेदिनी। २ उत्तमगजाः। * °णवारा सं॥ ३ अतिवेगेन। जनचक्रेव, खंता ॥ ४ मत्स्य विशेषाः। | तदा कतिपयैदिनैः सं ॥ ५ महामात्राः। ६ धान्यकणविशेषाः। - वृक्षान्। ८ उष्ट्राः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org