________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ ९२ ॥
Jain Education Internat
सैन्ये प्रत्याश्रयं दिव्यभोजनापादनक्षमम् । अचालीद् गृहिरत्नं च, संत्रशालेव जङ्गमा ॥ ४३ ॥ स्कन्धावारादि निर्मातुं, विश्वकर्मेव सत्वरम् । अलं वर्धकिरत्नं च चचाल सह भूभुजा ॥ ४४ ॥ चचाल चर्मरत्नं च च्छंत्ररत्नमिवाऽद्भुतम् । चक्रिणः सकलस्कन्धावारविस्तारशक्तिमत् ॥ ४५ ॥ रत्ने च मणि-काकिण्यौ, ध्वान्तविध्वंसनक्षमे । सह प्रचेलतुर्भाभिः, सूर्याचन्द्रमसाविव ।। ४६ ।। ययौ सह नरेन्द्रेण, खरत्नं च भासुरम् । सुरासुरवरास्त्राणामिव सारैर्विनिर्मितम् ॥ ४७ ॥
ततश्च सचमूचक्रश्चक्रभृद् भरतेश्वरः । प्रतीहारानुग इवाऽगमञ्चक्रानुगः पथि ॥ ४८ ॥ पवनेनाऽनुकूलेनाऽनुकूलैः शकुनैरपि । सर्वतो दिग्जयस्तस्याऽशंसि ज्यौतिषिकैरिव ॥ ४९ ॥ विषमं सुषमीच, सैन्यस्य पुरतो व्रजन् । सेनानीर्दण्डरलेन, मतेनेव कृषिः क्षितिम् ॥ ५० ॥ रुरुचे पृतनोद्भूतरजोभिः कृतदुर्दिनम् । रथद्विपपताकाभिर्बलाकाभिरिवाऽम्बरम् ॥ ५१ ॥ अदृश्यमानपर्यन्ता, सा चमूचक्रवर्त्तिनः । गङ्गाऽलक्षि द्वितीयेव, सर्वत्राऽप्यस्खलद्गतिः ॥ ५२ ॥ चीकृतैः स्यन्दना वाहा, हेषितैर्गर्जितैर्गजाः । अतत्वरन्निवाऽन्योऽन्यं, दिग्जयोत्सवकर्मणे ॥ ५३ ॥ अद्युतन् सादिनां कुन्ताश्चमृत्खाते रजस्यपि । हसन्त इव तच्छन्नान् दीधितीनुष्णदीधितेः ॥ ५४ ॥ आबद्धमुकुटै रेजे, राजभी राजकुञ्जरः । भक्तिमद्भिर्वृतो गच्छन्, शक्रः सामानिकैरिव ।। ५५ ।। गत्वा योजनपर्यन्ते तच्च चक्रमवास्थित । जज्ञे योजनमानं च तत्प्रयाणानुमानतः ॥ ५६ ॥ ततो योजनमानेंन, प्रयाणेन व्रजन् नृपः । गङ्गाया दक्षिणं कूलं, प्रापत् कतिपयैर्दिनैः ॥ ५७ ॥ १ दानशाला । २ देवशिल्पी । ३ सूर्यस्य ।
For Private & Personal Use Only
प्रथमं पर्व
चतुर्थः सर्गः
ऋषभजिन
भरतचक्रि
चरितम् ।
भरतस्य
दिग्जयार्थ
प्रयाणम् ।
॥ ९२ ॥
www.jainelibrary.org.