SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Jain Education Internationa स्वर्णकुम्भभृता श्वेतातपत्रेणोपशोभितः । श्रीसद्मपद्मभृत्पद्मदेन हिमवानिव ॥ ३० ॥ सर्वदा सन्निधानस्यैः, प्रतीहारैरिवाऽभितः । भक्तैः षोडशभिर्यक्षसहस्रैः परिवारितः ॥ ३१ ॥ उत्तुङ्गकुम्भशिखरस्थगितैकद्गिाननम् । आरोहद् वासव इवैरावणं रत्नकुञ्जरम् ॥ ३२ ॥ स गर्जन्नूर्जितं नागकुञ्जरस्तत्क्षणादभृत् । उद्दाममदधाराभिर्धाराधर इवाऽपरः ।। ३३ ।। उत्क्षिप्य पाणीन् कुर्वाणैर्दिवं पल्लवितामिव । युगपद् वैन्दिनां वृन्दैश्चक्रे जयजयारवः ॥ ३४ ॥ दुन्दुभिस्ताड्यमानोऽथ नदन्नुच्चैर्दिशोऽपि हि । नादयामास मुखरंगायनो गायनीरिव ॥ ३५ ॥ दूतीभूतानि निःशेषसैनिकाह्वानकर्मणि । प्रणेदुर्वर्यतूर्याणि, मङ्गलान्यपराण्यपि ॥ ३६ ॥ गजैः सिन्दूरभृत्कुम्भैः, सधातुभिरिवाऽद्रिभिः । अश्वैरनेकधाभूतरेवन्ताश्वभ्रमप्रदैः ॥ ३७ ॥ मनोरथैरिव निजैर्विशालैश्च महारथैः । पत्तिभिश्च महौजोभिः सिंहरिव वशंवदैः ॥ ३८ ॥ प्रचचाल महीपालः पूर्वं पूर्वां दिशं प्रति । संव्यानमिव तन्वानः, सैन्योत्थैः पांशुभिर्दिशाम् ॥ ३९ ॥ [ त्रिभिर्विशेषकम् ] तत्सैन्याग्रेसरं यक्षसहस्राधिष्ठितं ततः । चक्रेरत्नमभूद् विम्बं भानोखि नभश्वरम् ॥ ४० ॥ दण्डरंनधरो वाजिनमारुह्य तत्परः । नाम्ना सुषेण: सेनानीरत्नं चक्रमिवाऽचलत् ॥ ४१ ॥ निःशेषशान्तिकविधौ, शान्तिमन्त्र इवाऽङ्गवान् । पुरोधोरत्नमचलत्, समं वसुमतीभुजा ॥ ४२ ॥ बन्दिवृन्देन च खंता सं २ ॥ २ मुख्य * जात्यकु सं १ आ ॥ १ मेघः । + कुर्वाणान् दिवं खंता ॥ गायकः । ३ सूर्याश्वाः । ४ महापराक्रमैः । ५ वस्त्रम् । १ तत्पुरः सं १ खं ॥ For Private & Personal Use Only चक्रिणां रत्नानि । www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy