SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः। इतश्च भरतश्चक्री, विनीतामध्यवर्त्मना । प्रययावायुधागारं, चक्रस्योत्कोतिथेखि ॥१॥ तदालोकनमात्रेऽपि, प्रणनाम महीपतिः । मन्यन्ते क्षत्रिया वस्त्र, प्रत्यक्षमधिदैवतम् ॥२॥ रोमहस्तकमादाय, भरतस्तदमार्जयत् । भक्तानां प्रक्रिया ह्येषा, न रत्ने तादृशे रजः॥३॥ स्रपयामास तत् तोयैः, पावनैरवनीपतिः । उदयन्तमिव प्रायसरित्पतिरहर्पतिम् ॥ ४॥ स्थासकान् स्थापयामास, तत्र पूज्यत्वशंसिनः । पृष्ठे धुर्यगजस्येव, राजा गोशीर्षचन्दनैः॥५॥ पुष्पैर्गन्धैचूर्णवासर्वासोभिभूषणैरपि । नृपस्तत् पूजयामास, साक्षादिव जयश्रियम् ॥ ६॥ तस्याग्रे तन्दुलै रौप्यैरालिखत सोऽष्टमङ्गलीम् । पृथक पृथग् मङ्गलायेवैष्यदष्टककुश्रियाम् ॥ ७॥ पञ्चवर्णैश्च कुसुमैरुपहारं तदग्रतः । विचित्रचित्रामवनी, कुर्वाणमकरोन्नृपः ॥८॥ दिव्यचन्दनकर्पूरप्रायं धूपमथोत्तमम् । नृपः प्रयत्नाच्चकाग्रे, द्विपद्यश इवाऽदहत् ॥ ९॥ विश्व प्रदक्षिणीचक्रे, चक्र चक्रधरस्ततः । पदान्यपागात् सप्ताष्टान्यवग्रहाद् गुरोरिव ॥१०॥ वामं जानु समाकुश्य, दक्षिणं न्यस्य च क्षितौ । राजा चक्रं नमश्चक्रे, तमिव प्रणयी जनः॥११॥ तत्रैव च कृतावासश्चक्रस्याऽष्टाहिकोत्सवम् । चकार साकार इव, प्रमोदो मेदिनीपतिः ॥ १२ ॥ चक्रपूजोत्सवश्चक्रे, पौरैरपि महर्द्धिभिः। पूजितैः पूज्यमानो हि, केन केन न पूज्यते ? ॥१३ ।। त्रिषष्टि. १६ 1 उत्कण्ठितः । २ प्रमार्जनसाधनविशेषम् । ३ प्रक्रमः रीतियां ।। पूर्वसमुद्रः । ५ "थापा" इति भाषायाम् । राजानम् । Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy