SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ बलिः । मृगेन्द्रासनमारुह्य, पूर्ववत् पूर्वदिशुखः । अनुशिष्टिमयीं खामी, विदधे देशनां पुनः ॥ ६६५ ॥ देशनोद्दामवेलायाः, स्वामिवारिधिजन्मनः । मर्यादायाः प्रतिरूपा, तदाऽपूर्यत पौरुपी ॥६६६॥ ___ अत्रान्तरे च कलमैरखण्डैर्निस्तुपोज्वलैः । विनिर्मितश्चतुःप्रस्थीप्रमाणः स्थालसंस्थितः ॥ ६६७ ॥ दिविषन्निहितैर्गन्धैर्द्विगुणीकृतसौरभः । प्रधानपुरुषोत्क्षिप्तो, भरतेश्वरकारितः॥ ६६८॥ देवदुन्दुभिनिर्घोषप्रतिघोषितदिअखः । अन्वीयमानः प्रोद्गीतमङ्गलैर्ललनाजनैः ॥ ६६९ ॥ पौरैः खामिप्रभावोत्थपुण्यराशिरिवाऽऽवृतः । पूर्वद्वारेण समवसरणे प्राविशद् बलिः ॥६७० ॥ प्रभुं प्रदक्षिणीकृत्य, सोऽक्षिप्यत बलिः पुरः । वस्तुं कल्याणसस्यानामिव बीजमनुत्तमम् ॥ ६७१ ॥ अन्तरिक्षानिपततोऽन्तरालेऽपि समाददे । तस्यार्धममरैर्मेघपानीयमिव चातकैः ॥ ६७२॥ तस्य भूमिगतस्याऽय, जग्राह भरतेश्वरः। शेषं तु गोत्रिण इव, विभज्य जगृहुर्जनाः ॥ ६७३ ॥ पूर्वोत्पन्नाः प्रणश्यन्ति, रोगाः सर्वे नवाः पुनः । षण्मासान् नैव जायन्ते, बलेस्तस्य प्रभावतः॥६७४॥ अथोत्थायोत्तरद्वारवर्मना निर्ययौ प्रभुः । अन्वीयमानो देवेन्द्रः, पद्मखण्ड इवालिभिः॥६७५ ॥ रत्नमयस्वर्णमयवप्रयोरन्तरस्थिते । व्यश्राम्यद् भगवान् देवच्छन्द ईशानदिस्थिते ॥ ६७६ ॥ तदानीमृषभसेनो, गणभृन्मुखमण्डनम् । भगवत्पादपीठस्थो, विदधे धर्मदेशनाम् ॥ ६७७॥ स्वामिनः खेदविनोदः, शिष्याणां गुणदीपना । उभयतः प्रत्ययश्च, गणभृदेशनागुणाः ॥ ६७८ ॥ तस्मिन् गणधरे धर्मदेशनाविरते सति । प्रणम्य खामिनं सर्वे, स्थानं निजनिजं ययुः ॥ ६७९॥ Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy