________________
त्रिषष्टिशलाकापुरुषचरिते
॥८९॥
विसृष्टा भरतेशेन, ब्रायपि व्रतमग्रहीत् । गुरूपदेशः साक्ष्येव, प्रायेण लघुकर्मणाम् ॥ ६५०॥
प्रथमं पर्व विमुक्ता बाहुबलिना, जिघृक्षुः सुन्दरी व्रतम् । भरतेन निषिद्धा तु, श्राविका प्रथमाऽभवत् ॥६५१॥ीय भरतः स्वामिपादान्ते, श्रावकत्वमशिश्रियत् । न हि भोगफले कर्मण्यभुक्ते भवति व्रतम् ॥ ६५२॥ सर्गः नरतिर्यक्सुरेष्वेके, तदानीं जगृहुर्बतम् । श्रावकत्रतमन्ये तु, सम्यक्त्वमपरे पुनः॥ ५३॥
ऋषभते चं कच्छमहाकच्छवर्ज राजन्यतापसाः । आगत्य स्वामिनः पार्श्व, दीक्षामाददिरे मुंदा ॥ ६५४॥
चरितम् । साधवः पुण्डरीकाद्याः,साव्यो ब्राह्मीपुरस्कृताः। श्रावका भरतावास्तु,श्राविकाः सुन्दरीमुखाः॥६५५॥॥ चतुर्विधस्य सङ्घस्य, व्यवस्थेयं तदाऽभवत् । अद्यापि वर्त्तते सेयं, धर्मस्य परमं गृहम् ॥ ६५६ ॥
चतुर्विधसङ्घतदानीं चतुरशीतेर्गणभृन्नामकर्मणाम् । तिनामृषभसेनप्रभृतीनां सुमेधसाम् ॥ ६५७ ॥
हास्य गणधराणां उत्पादो विगमो ध्रौव्यमिति पुण्यां पदत्रयीम् । उद्दिदेश जगन्नाथः, सर्ववाङ्मयमातृकाम् ॥ ६५८ ॥ लाच स्थापनम्। सचतुर्दशपूर्वाणि, द्वादशाङ्गानि ते क्रमात् । ततो विरचयामासुस्तत्रिपद्यनुसारतः ॥६५९॥ अथाऽऽदाय दिव्यचूर्णपूर्ण स्थालं पुरन्दरः । देववृतो देवदेवपादान्तं समुपास्थित ॥ ६६०॥ अथोत्थाय गणभृतां, चूर्णक्षेपं यथाक्रमम् । कुर्वाणः सूत्रेणाऽर्थेन, तथा तदुभयेन च ॥६६१॥ द्रव्यैर्गुणैः पर्यायैश्च, नयैरपि जगत्पतिः । ददावनुयोगानुज्ञां, गणानुज्ञामपि स्वयम् ॥ ६६२॥ ततोऽमरा नरा नार्यो, दुन्दुभिध्यानपूर्वकम् । वासक्षेपं विदधिरे, तेषाभुपरि सर्वतः॥ ६६३॥ तस्थुर्गणधरास्तेऽपि, रचिताञ्जलिसम्पुटाः । स्वामिवाचं प्रतीच्छन्तो, मेघाम्भ इव पादपाः॥६६४॥
।॥८९॥ + तु खंता ॥ तदा खंता ।
-
Jain Education International
For Private & Personal use only
www.jainelibrary.org.