SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ऋषभसेनादीनां दीक्षा। शरीराद्यर्थदण्डस्य, प्रतिपक्षतया स्थितः । योऽनर्थदण्डस्तत्त्यागस्तृतीयं तु गुणव्रतम् ।। ६३५॥ त्यक्तात्रोद्रध्यानस्य, त्यक्तसावद्यकर्मणः । मुहूर्त समता या तां, विदुः सामायिकवतम् ॥ ६३६॥ दिखते परिमाणं यत् , तस्य सद्धेपणं पुनः। दिने रात्रौ च देशावकाशिकवतमुच्यते ॥ ६३७॥ चतुष्पा चतुर्थादि, कुव्यापारनिषेधनम् । ब्रह्मचयक्रिया स्नानादित्यागः पौषधव्रतम् ॥ ६३८ ॥ दानं चतुर्विधाहारपात्राच्छादनसद्मनाम् । अतिथिभ्योऽतिथिसंविभागव्रतमुदीरितम् ॥ ६३९ ॥ रत्नत्रयमिदं सम्यग्, यतिभिः श्रावकैरपि । उपासनीयं सततं, निर्वाणप्राप्तिहेतवे ॥ ६४०॥ __ आकर्ण्य देशनामेवमुत्थाय भरतात्मजः । ऋषभस्वामिनं नत्वार्षभसेनो व्यजिज्ञपत् ॥ ६४१॥ खामिनिह भवारण्ये, कपायदवदारुणे । नव्याम्बुद इवाऽवर्षस्तत्त्वामृतमनुत्तरम् ॥ ६४२ ॥ तरण्ड इव मजद्भिः, प्रपेव च पिपासितैः । कृशानुरिव शीतातैस्तापातरिख पादपः ॥ ६४३ ॥ ध्वान्तमग्नैर्दीप इव, निधिदौस्थ्यस्थितैरिव । विषादितैरिव सुधा, रोगितैरिव भेषजम् ॥ ६४४ ॥ विक्रान्तद्विषदाक्रान्तैरिव दुर्ग जगत्पते ।। भवभीतरसि प्राप्तो, रक्ष रक्ष दयानिधे ॥६४५॥[त्रिभिर्विशेषकम्]| पितृभिभ्रातृभिभ्रातपुत्रैरन्यैश्च बन्धुभिः । अनाप्तैरिव पर्याप्तं, भवभ्रमणहेतुभिः ॥ ६४६ ॥ जगच्छरण्य ! शरणं, संसारार्णवतारण त्वामेवाऽऽश्रितवानस्मि, दीक्षां देहि प्रसीद मे ॥६४७॥ [युग्मम् ] उक्त्वेति भरतस्याऽन्यैरेकोनैः पञ्चभिः शतैः । पुत्राणां प्रावजत् पौत्रसप्तशत्या च सोन्वितः॥ ६४८॥ भर्तुः केवलिमहिमां, क्रियमाणां सुरासुरैः। दृष्ट्वा मरीचिर्भरततनयो व्रतमग्रहीत् ॥ ६४९ ॥ * पुत्रैः पौत्रसप्तशत्या, चाऽन्वितो व्रतमाददे आ, सं ॥ RRERAKASHARASHAS विक्रान्ताद्विपदा भातपुत्ररन्यैश्च बन्धुमिलामेवाऽऽश्रितवान Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy