SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते 11 20 11 Jain Education International तीराभ्यर्णान्महापोता, इव वातसमाहताः । रागादिप्रेरिताः केऽपि, व्यावर्त्तन्ते ततः पुनः ॥ ५८९ ॥ तत्रैव तत्परीणामविशेषादासतेऽपरे । स्थलस्खलितगमनान्यम्भांसि सरितामिव ।। ५९० ॥ अपरे ये पुनर्भव्या, भाविभद्राः शरीरिणः । आविष्कृत्य परं वीर्यमपूर्वकरणेन ते ।। ५९१ ॥ अतिक्रामन्ति सहसा तं ग्रन्थि दुरतिक्रमम् । अतिक्रान्तमहाध्वानो, घट्टभूमिमिवाऽध्वगाः ॥ ५९२ ॥ अथाऽनिवृत्तिकरणादन्तरकरणे कृते । मिथ्यात्वं विरलीकृत्य, चतुर्गतिकजन्तवः ॥ ५९३ ॥ आन्तर्मुहूर्त्तिकं सम्यग्दर्शनं प्राप्नुवन्ति यत् । निसर्गहेतुकमिदं, सम्यक् श्रद्धानमुच्यते ॥ ५९४ ॥ [युग्मम् ] गुरूपदेशमालम्व्य, भव्यानामिह देहिनाम् । सम्यक् श्रद्धानं तु यत् तद्, भवेदधिगमोद्भवम् ।। ५९५ ।। तच्च स्यादौपशमिकं, साखादनमथाऽपरम् । क्षायोपशमिकं वेद्यं, क्षायिकं चेति पञ्चधा ॥ ५९६ ॥ तत्रौपशमिकं भिन्नकर्मग्रन्थेः शरीरिणः । सम्यक्त्वलाभे प्रथमेऽन्तर्मुहूर्त्तं प्रजायते ॥ ५९७ ॥ तथोपशान्तमोहस्योपशमश्रेणियोगतः । मोहोपशमजमौपशमिकं तु द्वितीयकम् ॥ ५९८ ॥ त्यक्तसम्यक्त्वभावस्य, मिथ्यात्वाभिमुखस्य च । तथाऽभ्युदीर्णानन्तानुबन्धिकस्य शरीरिणः ।। ५९९ ।। यः सम्यक्त्वपरीणाम, उत्कर्षेण पडावलिः । जघन्येनैकसमयस्तत् साखादनमीरितम् ॥ ६०० ॥ अथ तृतीयं मिथ्यात्वमोहक्षयशमोद्भवम् । सम्यक्त्वपुद्गलोदयपरिणामवतो भवेत् ॥ ६०१ ॥ वेदकं नाम सम्यक्त्वं, क्षपकश्रेणिमीयुषः । अनन्तानुबन्धिनां तु, क्षये जाते शरीरिणः । ६०२ ॥ मिथ्यात्वस्याऽथ मिश्रस्य, सम्यग् जाते परिक्षये । क्षायिकसम्मुखीनस्य, सम्यक्त्वाऽन्त्यांशभोगिनः।।६०३ || शुभभावस्य प्रक्षीणसप्तकस्य शरीरिणः । सम्यक्त्वं क्षायिकं नाम, पञ्चमं जायते पुनः ॥ ६०४ ॥ For Private & Personal Use Only प्रथमं पर्व तृतीयः सर्गः ऋषभ चरितम् । सम्यक्त्वस्य औपशमिका दयः रोचकादयश्च भेदास्तत्स्वरूपं च । ॥ ८७ ॥ www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy