________________
सम्यग्ज्ञानम्।
सम्यग्दर्शन तयाप्तिक्रमश्न।
किन्तु तत्र महानन्दं, सुखमद्वैतमव्ययम् । रूपं च शाश्वतं ज्योतिः, केवलालोकभास्करम् ॥ ५७३ ॥ स च सम्प्राप्यते मोक्षः, शीलयद्भिनिरन्तरम् । ज्ञानदर्शनचारित्ररत्नत्रितयमुज्वलम् ॥ ५७४ ॥
तत्र जीवादितत्त्वानां, सङ्घपाद् विस्तरादपि । यथावदवबोधो यः, सम्यग्ज्ञानं तदुच्यते ॥ ५७५ ॥ मतिश्रुताऽवधिमनःपर्यायैः केवलेन च । अमीभिः सान्वयैर्भेदैस्तत् तु पञ्चविधं मतम् ॥ ५७६ ॥ अवग्रहादिभिभिन्न, बह्वाधरितरैरपि । इन्द्रियानिन्द्रियभवं, मतिज्ञानमुदीरितम् ॥ ५७७ ॥ विस्तृतं बहुधा पूर्वैरङ्गोपाङ्गैः प्रकीर्णकैः । स्थाच्छब्दलाञ्छितं ज्ञेयं, श्रुतज्ञानमनेकधा ॥ ५७८ ॥ देवनैरयिकाणां स्यादवधिर्भवसम्भवः । षड्विकल्पस्तु शेषाणां, क्षयोपशमलक्षणः ॥ ५७९ ॥ ऋजुर्विपुल इत्येवं, स्यान्मनःपर्ययो द्विधा । विशुद्ध्यप्रतिपाताभ्यां, तद्विशेषोऽवगम्यताम् ॥ ५८० ॥ अशेषद्रव्यपर्यायविषयं विश्वलोचनम् । अनन्तमेकमत्यक्षं, केवलज्ञानमुच्यते ॥ ५८१॥
रुचिः श्रुतोक्ततत्त्वेषु, सम्यक्श्रद्धानमुच्यते । जायते तनिसर्गेण, गुरोरधिगमेन वा ॥ ५८२॥ तथाह्यनाद्यन्तभवावर्त्तवर्तिषु देहिषु । ज्ञानदृष्ट्यावृतिवेद्यान्तरायाभिधकर्मणाम् ॥ ५८३ ॥ सागरोपमकोटीनां, कोट्यस्त्रिंशत् परा स्थितिः । विंशतिर्गोत्रनाम्नोश्च, मोहनीयस्य सप्ततिः ॥ ५८४ ॥ ततो गिरिसरिद्वावघोलनान्यायतः स्वयम् । श्रीयन्ते सर्वकर्माणि, फलानुभवतः क्रमात् ।। ५८५॥ एकोनत्रिंशदेकोनविंशत्येकोनसप्ततीः । सागराणां कोटिकोटीः, स्थितिमुन्मूल्य कर्मणाम् ॥ ५८६ ॥ देशोनैकावशिष्टाब्धिकोटिकोटौ तु जन्मिनः । यथाप्रवृत्तिकरणाद्, ग्रन्थिदेशं समिति ॥५८७॥ [युग्मम् ] रागद्वेषपरीणामो, दुर्भेदो ग्रन्थिरुच्यते । दुरुच्छेदो दृढतरः, काष्ठादेवि सर्वदा ॥ ५८८ ॥
Jan Education international
For Private & Personal Use Only
www.jainelibrary.org