SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ त्रिपष्टि - शलाका पुरुषचरिते ॥ ८६ ॥ Jain Education Internati पदार्थानामशेषाणां, संसारोदरवर्तिनाम् । संयोगा विप्रयोगान्ताः, पतनान्ता इवोच्छ्रयाः ।। ५५८ ॥ आयुर्धनं यौवनं च, स्पर्द्धयेव परस्परम् । सत्वरं गत्वराण्येव, संसारेऽस्मिन् शरीरिणाम् ।। ५५९ ॥ 'संसारस्याऽस्य गतिषु चतसृष्वपि जातुचित् । नाऽस्त्येव सुखलेशोऽपि, स्वादु नीरं मराविव ॥ ५६० ॥ तथाहि क्षेत्रदोषेण, परमाधार्मिकैरपि । मिथथाऽऽक्लिश्यमानानां नारकाणां कुतः सुखम् ? ॥ ५६१ ॥ शीतवातातपाम्भोभिर्वधबन्धक्षुदादिभिः । विविधं बाध्यमानानां तिरश्चामपि किं सुखम् ? ॥ ५६२ ।। गर्भवासजनिव्याधिजरादारिद्र्यमृत्युजैः । क्रोडीकृतानामसुखैर्मनुष्याणां कुतः सुखम् १ || ५६३ ॥ अन्योऽन्यमत्सरामर्षकलहच्यवनाऽसुखैः । सुखलेशोऽपि नैवाऽस्ति, कदाचिद् घुसदामपि ॥ ५६४ ॥ अज्ञानाञ्जन्मिनो भूयो भूयः संसारसम्मुखम् । तथापि परिसर्पन्ति नीचाभिमुखमम्बुवत् ।। ५६५ ।। तद् भव्याश्चेतनावन्तो, निजेनाऽनेन जन्मना । मा पोषयत संसारं, दुग्धेनेव भुजङ्गमम् ॥ ५६६ ॥ संसारवासजं दुःखं, विचार्य तदनेकधा । सर्वात्मनाऽपि मोक्षाय, यतध्वं हे विवेकिनः ! ॥ ५६७ ॥ गर्भवासभवं दुःखं, नरकाऽसुखसन्निभम् । संसारवन्न मोक्षेऽस्ति, जीवानां हन्त ! जातुचित् ॥ ५६८ ॥ घटीमध्याकृष्यमाणनारकार्तिसहोदरा । नेह प्रसवजन्माऽपि जायते जातु वेदना ॥ ५६९ ॥ बहिरन्तःपरिक्षिप्तशल्यतुल्या भवन्ति च । नाऽऽधयो व्याधयो नाऽपि तत्र बाधानिबन्धनम् ।। ५७० ।। अग्रदूती कृतान्तस्य, तेजः सर्वस्वतस्करी । पराधीनत्वजननी, न जरा तत्र सर्वथा ॥ ५७१ ॥ सञ्जायते नारकिकतिर्यग्नृधुसदामिव । न तत्र मरणं भूयो भवभ्रमणकारणम् ।। ५७२ ॥ * संयोगाः स्युर्वियोगान्ताः सं १ ॥ + अयं श्लोकः पा. पुस्तके न दृश्यते ॥ १ जन्तोः । २ अङ्कस्थापितानाम् । For Private & Personal Use Only प्रथमं पर्व तृतीयः सर्गः ऋषभ चरितम् । ऋषभप्रभोदेशना । मोक्षस्वरूपम्) ॥ ८६ ॥ www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy