SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वस्थ लक्षणानि । SAUSAISESSISSES ROSESSIS सम्यग्दर्शनमेतच्च, गुणतस्त्रिविधं भवेत् । रोचकं दीपकं चैव, कारकं चेति नामतः॥६०५॥ तत्र श्रुतोक्ततत्त्वेषु, हेतूदाहरणैर्विना । दृढा या प्रत्ययोत्पत्तिस्तद् रोचकमुदीरितम् ॥ ६०६ ॥ दीपकं तद् यदन्येषामपि सम्यक्त्वदीपकम् । कारकं संयमतपःप्रभृतीनां तु कारकम् ॥ ६०७ ॥ शम-संवेग-निर्वेदा-ऽनुकम्पा-ऽऽस्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वं तत् तु लक्ष्यते॥६०८॥ अनन्तानुबन्धिकषायाणामनुदयः शमः । स प्रकृत्या कषायाणां, विपाकेक्षणतोऽपि वा ॥ ६०९॥ ध्यायतः कर्मविपाकं, संसारासारतामपि । यत् स्याद् विषयवैराग्यं, स संवेग इतीरितः॥ ६१०॥ संसारवासः कारैव, बन्धनान्येव बन्धवः । ससंवेगस्य चिन्तेयं, या निर्वेदः स उच्यते ॥ ६११॥ एकेन्द्रियप्रभृतीनां, सर्वेषामपि देहिनाम् । भवाब्धौ मजतां क्लेशं, पश्यतो हृदयार्द्रता ॥ ६१२ ॥ तदुःखैर्दुःखितत्वं च, तत्प्रतीकारहेतुषु । यथाशक्ति प्रवृत्तिश्चेत्यनुकम्पाभिधीयते ॥ ६१३॥ [युग्मम्] तत्त्वान्तराकर्णनेऽपि, या तत्त्वेष्वाहतेषु तु । प्रतिपत्तिनिराकासा, तदास्तिक्यमुदीरितम् ॥ ६१४ ॥ सम्यग्दर्शनमित्युक्तं, प्राप्तावस्य क्षणादपि । मत्यज्ञानं पुराऽभूद् यत्, तन्मतिज्ञानतां व्रजेत् ॥ ६१५॥॥ जन्मिनो यच्छ्रताऽज्ञानं, तच्छृतज्ञानतां भजेत् । विभङ्गज्ञानमवधिज्ञानभावं च गच्छति ॥ ६१६ ॥ ___ सर्वसावद्ययोगानां, त्यागश्चारित्रमिष्यते । कीर्तितं तदहिंसादिवतभेदेन पञ्चधा ॥ ६१७ ॥ अहिंसा-सूनृता-ऽस्तेय-ब्रह्मचर्या-ऽपरिग्रहाः । पञ्चभिः पञ्चभिर्युक्ता भावनाभिर्विमुक्तये ॥ ६१८॥ न यत् प्रमादयोगेन, जीवितव्यपरोपणम् । सानां स्थावराणां च, तदहिंसावतं मतम् ॥ ६१९॥ प्राणापहरणम् । सम्यक चारित्रम् । सर्वविरतिः। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy