SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाका तृतीयः पुरुषचरिते सर्गः ॥८४॥ ऋषभचरितम् । अहो ! कष्टमहो ! कष्ट, यन्मे सूनुस्तपात्यये । पद्मखण्ड इव मृदुः, सहते वारिविद्रवम् ॥ ४९९ ॥ हिमत्तौं हिमसम्पातसंक्लेशविवशां दशाम् । अरण्ये मालतीस्तम्ब, इव याति निरन्तरम् ॥ ५००॥ उष्ण वुष्णकिरणकिरणैरतिदारुणैः । सन्तापं चाऽनुभवति, स्तम्बेरम इवाधिकम् ॥ ५०१ ॥ तदेवं सर्वकालेपु, वनेवासी निराश्रयः । पृथग्जन इवैकाकी, वत्सो मे दुःखभाजनम् ॥ ५०२॥ तचदुःखाकुलं वत्सं, पश्यन्त्यग्रे दृशोरिख । वदन्ती नित्यमप्येवं, हा ! त्वामपि दुनोम्यहम् ॥५०३॥ __ इति दुःखाकुलां देवीं, मरुदेवीमुदञ्जलिः । वाचाऽवोचन्नवसुधासधीच्या वसुधाधवः ॥ ५०४ ॥ स्थैर्याद्रेर्वज्रसारस्य, महासत्वशिरोमणेः । तातस्य जननी भूत्वा, किमेवं देवि ! ताम्यसि ? ॥ ५०५॥ तातस्तरीतुं सहसा, संसाराम्भोधिमुद्यतः । कण्ठबद्धशिलाप्रायान् , स्थाने तत्याज नः प्रभुः॥ ५०६ ॥ बने विहरतो भर्तुः, प्रभावाच्छापदा अपि । नोपद्रवं कर्तुमलं, पापाणघटिता इव ॥ ५०७॥ क्षुत्पिपासातपप्राया, दुःसहा ये परीषहाः । सहायाः खलु तातस्य, ते कर्मद्वेषिसूदने ॥ ५०८ ॥ न चेत् प्रत्येपि मद्वाचा, प्रत्येष्यसि तथापि हि । तातस्य न चिराजातकेवलोत्सववार्तया ॥ ५०९ ॥ __अत्रान्तरे महीभापितो वेत्रपाणिना । नाम्ना यमक-शमकौ, पुरुषावभ्युपेयतुः ॥ ५१० ॥ प्रणम्य यमकस्तत्र, भरतेशं व्यजिज्ञपत् । दिष्ट्याऽद्य वधसे देवाऽनया कल्याणवार्त्तया ॥५११॥ पुरे पुरिमतालाख्ये, कानने शकटानने । युगादिनाथपादानामुदपद्यत केवलम् ॥ ५१२ ॥ प्रणम्य शमकोऽप्युच्चैःस्वरमेवं व्यजिज्ञपत् । इदानीमायुधागारे, चक्ररत्नमजायत ॥ ५१३ ॥ 3 जलोपद्रवम् । २ ग्रीष्मत्तौं । ३ अस्मान् । भरतं प्रति प्रभुज्ञानोत्प तेश्चकरतो| त्पत्तेश्च युगपनिवेदनम्। ॥८४॥ Jan Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy