SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥८३॥ COMGURUGRECORDS स्थानं विहाय साधूनां, साध्वीनां च तदन्तरे। पूर्वदक्षिणदिश्यूस्तिस्थुवैमानिकस्त्रियः॥४६९॥ [ युग्मम् ]|| प्रथम पर्व प्रविश्याऽपाच्यद्वारेण, विधिना तेन नैर्ऋते । क्रमेणाऽस्थुवनेशज्योतिष्कव्यन्तरस्त्रियः॥४७॥ तृतीयः प्रविश्य प्रत्यरद्वारा प्राग, विधिपूर्व मरुद्दिशि । अतिष्ठन् भवनपतिज्योतिष्कव्यन्तराः सुराः ॥ ४७१ ॥ सर्गः प्रविश्योदीच्यद्वारेण, तेनैव विधिना क्रमात् । ऐशान्यां कल्पदेवाश्च, नरा नार्योऽवतस्थिरे ॥ ४७२ ॥ ऋषभतत्राऽऽदावागतोऽल्पर्द्धिरागच्छन्तं महर्द्धिकम् । नमति साऽऽगतं तु प्रार, नमन्नेव जगाम च ॥ ४७३॥ चरितम् । नियन्त्रणा तत्र नैव, विकथा न च काचन । विरोधिनामपि मिथो, न मात्सर्य भयं न च ॥ ४७४ ॥ द्वितीयस्य तु वप्रस्य, तिर्यञ्चस्तस्थुरन्तरे । वाहनानि तृतीयस्य, प्राकारस्य तु मध्यतः॥ ४७५॥ समवसरणम्। प्राकारस्य तृतीयस्य, बाह्यदेशेऽभवन् पुनः । विशन्तः केपि निर्यान्तः, केपि तिर्यग्नरामराः ॥ ४७६॥ अथ सौधर्मकल्पेन्द्रो, नमस्कृत्य कृताञ्जलिः । रोमाश्चितो जगन्नाथमिति स्तोतुं प्रचक्रमे ॥ ४७७ ॥ स्वामिन् ! क्व धीदरिद्रोऽहं, क्व च त्वं गुणपर्वतः। अभिष्टोष्ये तथाऽपि त्वां, भक्त्याऽतिमुखरीकृतः॥४७८॥ अनन्तैर्दर्शनज्ञानवीर्यानन्दर्जगत्पते । रनै रत्नाकर इव, त्वमिहैको विराजसे ॥ ४७९ ॥ देवेह भरतक्षेत्रे, चिरं नष्टस्य सर्वथा । धर्मस्याऽसि प्ररोहाय, बीजमेकं तरोरिख ॥ ४८० ॥ अनुत्तरसुराणां त्वं, तत्रस्थानामिह स्थितः । वेत्सि च्छिनत्सि सन्देहं, न माहात्म्यावधिस्तव ॥४८१॥ फलं त्वद्भक्तिलेशस्य, निवासः स्वर्गभूमिषु । यत् सुराणां समग्राणां, महर्द्धिद्युतिभास्वताम् ॥ ४८२ ॥ देव ! त्वद्भक्तिहीनानां, तपांस्यतिमहान्त्यपि । अबोद्धृणामिव ग्रन्थाभ्यासः क्लेशाय केवलम् ॥ ४८३ ॥ १ दक्षिणद्वारेण । २ वायव्यदिशि। ३ उत्तरद्वारेण । SCRECORRECAMERCESCRICK Jan Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy