________________
सासमवसरणम्।
तस्योपरि विचक्रे च, तैश्छत्रत्रयमुज्वलम् । स्वामिनस्त्रिजगत्स्वाम्यचिह्नत्रयमिवोच्चकैः ॥ ४५४॥ यक्षाभ्यां तत्र दधाते, पार्श्वयोश्चामरौ शुची। हृद्यमान्तौ बहिर्भूती, स्वामिभक्तिभराविव ॥ ४५५ ॥ ततः समवसरणद्वारे हेमाम्बुजस्थितम् । अत्यद्भुतप्रभाचक्र, धर्मचक्र विचक्रिरे ॥ ४५६ ॥ तत्राऽन्यदपि यत् कृत्यं, तत् सर्व व्यन्तरा व्यधुः । साधारणे हि समवसरणे तेऽधिकारिणः॥ ४५७ ॥
चतुर्विधानां देवानामथ कोटीभिरावृतः । भगवान् समवसत्तुं, प्रचचाल दिवामुखे ॥ ४५८ ॥ सहस्रपत्राण्यब्जानि, सौवर्णानि तदा नव । विदधुनिंदधुश्चाऽग्रे, क्रमेण स्वामिनः सुराः ॥ ४५९ ॥ विदधे तेषु च स्वामी, पादन्यासं द्वयोर्द्वयोः । पुरः सञ्चारयामासुराशु शेषाणि नाकिनः ॥ ४६० ॥ पूर्वद्वारेण समवसरणं प्राविशत् ततः । चक्रे च चैत्यवृक्षस्य, जगन्नाथः प्रदक्षिणाम् ॥ ४६१ ॥ तीर्थ नत्वा प्रामुखोऽथ, जगन्मोहतमश्छिदे । स्वामी सिंहासनं भेजे, पूर्वाचलमिवार्यमा ॥ ४६२॥ रत्नसिंहासनस्थानि, दिक्ष्वन्यास्वपि तत्क्षणम् । भगवत्प्रतिबिम्बानि, व्यन्तरास्त्रीणि चक्रिरे ॥ ४६३ ॥ देवाः प्रभोः सदृग्रूपमङ्गष्ठस्याऽपि न क्षमाः । कर्तुं ताशि तान्यासन् , पुनः स्वामिप्रभावतः॥ ४६४ ॥ आविर्बभूवाऽनुशिरस्तदा भामण्डलं विभोः । खद्योतपोतवद् यस्य, पुरो मार्तण्डमण्डलम् ॥ ४६५॥ प्रतिध्वानैश्चतस्रोऽपि, दिशो मुखरयन् भृशम् । अम्भोद इव गम्भीरो, दिवि दध्वान दुन्दुभिः ॥ ४६६ ॥५ भगवानेक एवाऽयं, स्वामीत्यूचीकृतो भुजः । धर्मेणेव प्रभोरग्रे, रेजे रत्नमयध्वजः ॥ ४६७॥ प्रविश्य पूर्वद्वारेण, कृत्वा च त्रिःप्रदक्षिणाम् । तीर्थनाथं च तीर्थ च, नत्वा प्राकार आदिमे ॥४६८॥ सुवर्णकमलस्थितम् । * वाऽनुवपुस्तदा आ ॥ २ पतकशिशुवत् ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org.