SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथमं पर्व | तृतीयः सर्गः ऋषभचरितम् । ॥८१॥ इन्द्राणामागमनम्। सुगन्धिदीर्घनिश्वासश्चलदीर्घकराङ्गुलिः । दीर्घोष्ठपल्लयो दीर्घमेहनो दीर्घवालंधिः ॥ ४०९॥ घण्टाभ्यां पार्श्वयोश्चन्द्रार्काभ्यां मेरुरिवाङ्कितः । देवद्रुकुसुमावेष्टं, कक्षानाडी च धारयन् ॥ ४१०॥ मुखान्यष्टौ हेमपट्टाश्चितभालानि तस्य च । बभुर्दिगष्टकश्रीणामिव विभ्रमभूमयः॥४११॥ - अष्टौ मुखे मुखे दन्तास्तिरश्चीनायतोन्नताः । दृढाश्चकाशिरे तस्य, महाद्रेरिव दन्तकाः ॥ ४१२ ॥ दन्ते दन्ते पुष्करिणी, स्वादुनिर्मलपुष्करा । गिरौ वर्षधरे वर्षधरे इद इवाऽभवत् ॥ ४१३ ॥ पुष्करिण्यां पुष्करिण्यामष्टावम्भोरुहाणि च । अब्देवीभिः कृतानीव, मुखानि बहिरम्भसः ॥ ४१४॥ दलानि विपुलान्यष्टाम्भोरुहेऽम्भोरुहेऽपि च । क्रीडत्सुरस्त्रीविश्रामान्तरीपाणीव रेजिरे ॥ ४१५॥ दले दलेऽष्टसङ्ग्यानि, नाटकानि विरेजिरे । चतुर्विधैरभिनयैः, सनाथानि पृथक् पृथक ॥ ४१६ ॥ द्वात्रिंशदासन पात्राणि, नाटके नाटकेऽपि च । निर्झरा इव सुखादरसकल्लोलसम्पदः ॥ ४१७ ॥ .. वासवः सपरीवारस्तं वारणवरं ततः । अग्रासनेऽध्यारुरोह, कुम्भाग्रच्छन्ननाभिकः ॥ ४१८ ॥ आसीनसपरीवारवासवो वारणाधिपः । सहसा सकलः कल्पः, सौधर्म इव सोऽचलत् ॥ ४१९ ॥ क्षणादपि तदुद्यानमृषभखामिपावितम् । स प्राप पालक इव, स्ववपुः सनिपन क्रमात् ॥ ४२०॥ इन्द्राः समं देवगणैरपरेऽप्यच्युतादयः। अहंपूर्विकयेवेयुस्तत्रोच्चैर्दधतस्त्वराम् ॥ ४२१॥ इतः समवसरणस्याऽवनीमेकयोजनाम् । अमृजन् वायुकुमाराः, स्वयं मार्जितमानिनः ॥ ४२२॥ गन्धाम्बुवृष्टिभिर्मेघकुमाराः सिषिचुः क्षितिम् । सुगन्धिबाष्पैः सोत्क्षिप्तधूपा'वैष्यतः प्रभोः ॥ ४२३ ॥ शुण्डामः । २ दीर्घपुच्छः। ३ अन्तरद्वीपाणीव । कान्यभिनिन्यिरे सं २, आ॥ ॥८१॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy