SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ऐरावणगजः। ऐक्यश्रुतमवीचारं, शुक्लध्यानं द्वितीयकम् । क्षणादासादयदथ, क्षीणमोहान्तिमक्षणे ॥ ३९४ ॥ पञ्च ज्ञानावरणानि, दृष्ट्यावृतिचतुष्टयम् । अन्तरायांश्च पञ्चेति, घातिशेषमनाशयत् ॥ ३९५॥ अथ व्रतात् सहस्राब्द्यां, फाल्गुनैकादशीदिने । कृष्णे तथोत्तराषाढास्थिते चन्द्रे दिवामुखे ॥३९६॥ उत्पेदे केवलज्ञानं, त्रिकालविषयं विभोः । हस्तस्थितमिवाऽशेषं, दर्शयद् भुवनत्रयम् ॥३९७॥ [ युग्मम् ] दिशः प्रसेदुरभवन् , वायवः सुखदायिनः । नारकाणामपि तदा, क्षणं सुखमजायत ॥ ३९८ ॥ अथेन्द्राणामशेषाणामासनानि चकम्पिरे । तान् नोदितुमिव स्वामिकेवलोत्सवकर्मणे ॥३९९ ॥ प्रणेदुरिन्द्रलोकेषु, महाघण्टाः पटुस्खनाः । सद्यो दूत्य इव स्वस्खलोकाकारणकर्मणि ॥ ४००॥ यियासोः स्वामिपादान्ते, सौधर्माधिपतेः सुरः । ऐरावणो गजीभूय, चिन्तामात्रादुपास्थित ॥ ४०१॥ विराजमानस्तन्वा स, लक्षयोजनमानया । दिक्षुः स्वामिनं मेरुरिव जङ्गमतां गतः ॥ ४०२ ॥ अङ्गप्रभाभि हारधवलाभिः समन्ततः । ककुभां चान्दनमिव, वितन्यानो विलेपनम् ॥ ४०३ ॥ गण्डस्थलगलद्दानजलैरतिसुगन्धिभिः । स्वर्गाङ्गणभुवं कुर्वन् , कस्तूरीस्तबकाङ्किताम् ॥ ४०४॥ कर्णतालैस्तालवृन्तैरिव लोलैर्निवारयन् । कपोलतलसम्पातिगन्धान्धमधुपावलीम् ॥ ४०५॥ कुम्भस्थलपराभूतबालमार्तण्डमण्डलः । आनुपूर्वीपीनवृत्तशुण्डानुकृतनागराद् ॥ ४०६ ॥ मध्वाभनेत्रदशनस्ताम्रपत्राभतालुकः । भम्भावृत्तशुभग्रीवः, पृथुगात्रान्तरालकः ॥ ४०७॥ अधिज्यीकृतधन्वाभपृष्ठवंशः कृशोदरः । चन्द्रमण्डलसङ्काशनखमण्डलमण्डितः ॥४०८ ॥ • दर्शनावरणचतुष्टयम् । * सहस्रक फा खं ॥२ सहस्रवर्षेषु गतेषु। ३ आह्वानकर्मणि। ४ मधुवर्णनेत्रदन्तः । Jain Education Internation in For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy