SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व तृतीयः सर्गः ऋषभ चरितम्। कुलिशाङ्कुशचक्राजध्वजमत्स्यादिलाञ्छितैः । दृष्टैः स्वामिपदन्यासैदृष्टः खाम्येव भावतः ॥३७८ ॥ श्रुत्वेति खामिनस्तानि, पदविम्बानि भक्तितः । सान्तःपुरपरीवारः, सुनन्दासूरवन्दत ॥ ३७९॥ पदान्येतानि मा साऽतिक्रामत् कोऽपीति बुद्धितः । धर्मचक्रं रत्नमयं, तत्र बाहुबलिय॑धात् ॥ ३८॥ अष्टयोजनविस्तारं, तच्च योजनमुच्छ्रितम् । सहस्रारं बभौ बिम्ब, सहस्रांशोरिवाऽपरम् ॥ ३८१॥ त्रिजगत्स्वामिनस्तस्य, प्रभावादतिशायिनः । सद्यस्तत्कृतमेवैक्षि, दुष्करं द्युसदामपि ॥ ३८२ ॥ तत् तथाऽपूजयद् राजा, पुष्पैः सर्वत आहृतैः । समलक्षि यथा पौरैः, पुष्पाणामिव पर्वतः ॥ ३८३ ॥ तत्र प्रवरसङ्गीतनाटकादिभिरुद्भटम् । नन्दीश्वरे शक इव, स चक्रेऽष्टाह्निकोत्सवम् ॥ ३८४ ॥ आरक्षकानर्चकांश्च, तत्रादिश्य विशांपतिः । नमस्कृत्य च कृत्यज्ञो, जगाम नगरी निजाम् ॥ ३८५ ॥ भगवानप्यनायत्तः, समीरण इवाऽस्खलन् । नानाविधतपोनिष्ठो, विविधाभिग्रहोद्यतः ॥ ३८६॥ यवनाडम्बइल्लादिम्लेच्छदेशेषु मौनभाक् । अनार्यान् भद्रकीकुर्वन् , दर्शनेनापि देहिनः॥३८७॥ उपसगैरसंस्पृष्टः, सहमानः परीषहान् । सहस्रमेकं वर्षाणां, व्यहरद् दिनलीलया ॥ ३८८ ॥ HAI अयोध्याया महापुर्याः, शाखानगरमुत्तमम् । ययौ पुरिमतालाख्यं, भगवानृषभध्वजः॥३८९॥ तस्य चोत्तरतो रम्यं, द्वितीयमिव नन्दनम् । उद्यानं शकटमुखं, नाम न्यविशत प्रभुः॥३९॥. कृताष्टमतपास्तत्र, न्यग्रोधस्य तरोरधः । प्रतिमास्थोऽप्रमत्ताख्यं, गुणस्थानं प्रपन्नवान् ॥ ३९१ ॥ ततश्चाऽपूर्वकरणमारूढः प्रत्यपद्यत । शुक्लध्यानं सवीचारं, पृथक्त्वेन वितर्कयुक् ।। ३९२ ॥ प्राप्यानिवृत्तिं च सूक्ष्मसम्परायगुणं ततः । क्षणात् क्षीणकषायत्वं, प्रतिपेदे जगद्गुरुः ॥ ३९३ ॥ | प्रभोः केवलज्ञानोत्पत्तिः। NAGACARSAREER Jain Education Internation For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy