SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व तृतीयः त्रिषष्टि शलाकापुरुषचरिते ॥७९॥ सर्गः ऋषभचरितम् । सचामराभ्यां च वारस्त्रीभ्यां सेवितपार्श्वकः । सराजहंसाभ्यां गङ्गायमुनाभ्यां प्रयागवत् ॥ ३५०॥ धवलेनाऽऽतपत्रेणोपरिस्थेनाऽतिहारिणा | राकानिशीथशशिना, सानुमानिव शोभितः ॥ ३५१ ॥ सुवर्णदण्डहस्तेन, प्रतीहारेण चाऽग्रतः । शोध्यमानपथो देवनन्दिना देवराडिव ॥ ३५२॥ अन्वीयमानोऽश्वारूढः, रत्नाभरणभूषितैः । पौरैरिभ्यैरसङ्ख्यातैः, श्रीदेव्या इन पुत्रकैः ॥ ३५३ ॥ शिलोच्चयशिलापृष्ठमिव पञ्चाननो युवा । भद्रद्विपपतिस्कन्धमध्यारूढः सुरेन्द्रवत् ॥ ३५४ ॥ विराजमानः शिरसि, तरङ्गीभृतकान्तिना । रत्नमयकिरीटेन, चूलयेवाऽमराचलः ॥ ३५५ ॥ बिभ्रन्मुक्ताकुण्डले च, बदनस्य श्रिया जितौ । सेवाकृते समायातौ, जम्बूद्वीपविधू इव ॥ ३५६ ॥ स्थूलमुक्तामणिमयं, हारयष्टिं च धारयन् । हृदये मन्दिरे लक्ष्म्या , वप्रसब्रह्मचारिणम् ॥ ३५७ ॥ दोमलयोर्दधानश्च, जात्यजाम्बूनदाङ्गदौ । दृढौ नवलतावेष्टाविवोच्चैर्भुजशाखिनोः ॥ ३५८ ॥ मुक्तामणिमयो बिभ्रत्कङ्कणौ मणिवन्धयोः । लावण्यसरितस्तीरवर्तिफेनच्छटोपमौ ॥ ३५९ ॥ अङ्गलीये च बिभ्राणः, कान्तिपल्लविताम्बरे । मणी इवानणीयांसो, पाण्योः फणिफणश्रियोः ॥३६॥ चोलकेनाऽङ्गालग्नेन, सूक्ष्मश्वेतेन शोभितः । असंलक्ष्यविभेदेन, श्रीचन्दनविलेपनात् ॥ ३६१॥ चारुमन्दाकिनीवीचिनिचयस्पर्धिनी पटीम् । धारयन् परितो राकाचन्द्रमाश्चन्द्रिकामिव ॥ ३६२ ॥ विचित्रवर्णरुचिरेणाऽन्तरीयेण रोचितः । नानाधातूंपत्यकया, निषेवित इवाञ्चलः ॥ ३६३॥ १ पूर्णिमारात्रिचन्द्रेण। २ इन्द्रप्रतीहारेण । ३ केशरी। * बराङ्गीभूत सं १॥ ४ जम्बूद्वीपस्थचन्द्रौ इव । ५ जात्यसुवर्णकेयूरौ। ६ महान्तौ। ७ पर्वतासन्नभूम्या । बाहुबलेन्दनार्थमागमनम्। ॥७९॥ Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy