SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ कृषभप्रभो बहलीदेशे गमनं, | बाहुबले न्दनार्थमागमन च। खामी सम्पाप सायाहे, निकुञ्जमिव कुञ्जरः। बहलीमण्डले बाहुबलेस्तक्षशिलापुरीम् ॥ ३३५॥ तस्याश्च बहिरुद्याने, तस्थौ प्रतिमया प्रभुः । गत्वा च बाहुबलये, तदायुक्तैन्य॑वेद्यत ॥ ३३६ ॥ अथाऽदिक्षत् पुरारक्षं, मापतिस्तत्क्षणादपि । विचित्रं हट्टशोभादि, नगरे क्रियतामिति ॥ ३३७॥ पदे पदेऽभवद् रम्भास्तम्भतोरणमालिका । लम्बमानमहालुम्बिचुम्बिताध्वन्यमौलिका ।। ३३८ ॥ मञ्चाः प्रतिपथं चासन् , रत्नभाजनभासुराः । विमानानीव भगवदर्शनायातनाकिनाम् ॥ ३३९ ॥ अनिलान्दोलितोद्दामपताकामालिकाच्छलात् । पूः सहस्रभुजीभूय, ननर्तेव मुदा तदा ॥३४॥ नव्यकुङ्कमपानीयच्छटाभिरभितोऽप्यभूत । सद्यो रचितमङ्गल्याङ्गरागेव वसुन्धरा ।। ३४१ ॥ भगवदर्शनोत्कण्ठारजनीजानिसङ्गमात् । पुरं तदानीमुन्निद्रमभूत् कुमुदषण्डवत् ॥ ३४२ ॥ प्रातः खं पावयिष्यामि, लोकं च स्वामिदर्शनात् । इतीच्छतो बाहुबलेः, साऽभून्मासोपमा निशा ॥३४॥ तस्यामीपद्विभातायां, विभावां जगद्विभुः । प्रतिमां पारयित्वाऽगात् , क्वचिदन्यत्र वायुवत् ॥ ३४४ ॥ प्रातच बद्धमुकुटैमहद्भिर्मण्डलेश्वरैः । भूयिष्टैरिव मार्तण्डैः, परितः परिवारितः ॥ ३४५ ॥ उपायानामिवाऽगारैरर्थशास्त्रैरिवाऽङ्गिभिः । शुक्राचैरिव भूयिष्ठैर्वरिष्ठैर्मत्रिभिर्वृतः ॥ ३४६ ॥ जगल्लङ्घनजङ्घालैर्लक्षसङ्खबैस्तुरङ्गमैः । गूढपक्षैः पक्षिराजैखि विष्वग् विराजितः ॥ ३४७॥ क्षरन्मदजलासारशमितक्षितिरेणुभिः । उत्तुङ्गैः शोभितो नागैर्नगैरिख सनिझरैः ॥ ३४८॥ वसन्तश्रीप्रभृत्यन्तःपुरस्त्रीभिः सहस्रशः । पातालकन्याभिरिवाऽसूर्यम्पश्याभिरावृतः ॥ ३४९ ॥ बहलीदेशे। * भूः सह सं १ ॥ २ चन्द्रः। ३ वेगवभिः । त्रिषष्टि. १४ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy