________________
ते च कच्छमहाकच्छादयः क्षत्रियतापसाः । आजग्मुरुद्दाममुदः, स्वामिपारणवार्तया ॥ ३०४ ॥
राजानो नागराश्चाऽन्ये, जना जानपदा अपि । पुलकोत्फुल्लवपुषः, श्रेयांसमिदमूचिरे ॥३०५॥ भो भोः कुमार! धन्योऽसि, नृणामसि शिरोमणिः । यदिक्षुरस आहारः, स्वामिना ग्राहितस्त्वया ॥३०६॥ प्रदीयमानमस्माभिः, सर्वस्वमपि नाऽऽत्तवान् । नाऽमन्यत तृणायाऽपि, प्रसन्नोऽस्मासु न प्रभुः॥३०७॥ संवत्सरमटन स्वामी, ग्रामाकरपुराटवीः । कस्याऽप्यादत्त नाऽऽतिथ्यं, धिगस्मान् भक्तमानिनः ॥ ३०८॥ दूरेऽस्तु वस्तुग्रहणं, दूरे वेश्मसु विश्रमः । अद्य यावन्न वाचाऽपि, स्वामी नः समभावयत् ॥ ३०९ ॥ पुत्रवत् सातैपूर्वी नः, पूर्वलक्षाण्यनेकशः । असंस्तव इवेदानीं, प्रभुरमासु वर्तते ॥३१॥
श्रेयांसस्तानुवाचैवं, किमेवमभिधीयते । न ह्ययं पूर्ववत् स्वामी, परिग्रहपरो नृपः ॥ ३११ ॥ इदानीं वर्तते भर्ता, भवावर्तीन्निवर्तितम् । कृतनिःशेषसावधव्यापारविरतिर्यतिः॥३१२॥ स्नानाङ्गरागनेपथ्यवस्वाणि स्वीकरोति सः। यो भोगेच्छुः स्वामिनस्तु, तद्विरक्तस्य किं हि तैः? ॥३१३॥ , कन्यकाः स हि गृह्णाति, यः कामविवशो जनः। स्वामिनो जितकामस्य, कामिन्यः काममश्म॑वत् ॥३१४॥ हस्त्यश्वादि स गृह्णाति, यो महीराज्यमिच्छति । भर्तुः संयमसाम्राज्यभाजस्तद्दग्धवस्त्रवत् ॥ ३१५॥ फलादिकं स गृह्णाति, सजीवं यो हि हिंसकः । स्वामी त्वखिलजन्तूनामसौ जीवाभयप्रदः ॥३१६॥ एषणीयं कल्पनीयं, प्रासुकं च जगत्पतिः। आदत्तेऽन्नादि तन्मुग्धा, भवन्तो न हि जानते ॥ ३१७॥
ऊचिरे युवराजं ते, स्वामिना ज्ञापितं पुरा । यत् किश्चिदपि शिल्पादि, तन्मानं जानते जनाः॥३१८॥ १ रक्षितपूर्वी। २ अपरिचित इव । ३ संसाररूपजलावर्तात् । " पाषाणवत् ।
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org