________________
प्रत्यक्षीकारनिर्देश्या, जगत्रितयदेवता । इह भाग्यवशादायात्ययं ते प्रपितामहः ॥ २७५ ॥ गवामिवाऽनुगोपालं, धावतां स्वामिनं ह्यमुम् । असौ सकलपौराणां, कलः कलकलोऽधुना ॥ २७६ ॥ ___ दृष्ट्वा स्वामिनमायान्तं, युवराजोऽपि तत्क्षणम् । अधावत् पादचारेण, पत्तीनप्यतिलङ्घयन् ॥ २७७॥ छत्रोपानहमुत्सृज्य, युवराजेभिधाविनि । अच्छतोपानहा पर्षत, तच्छायेवाऽन्वधावत ॥ २७८ ॥ सम्भ्रमादुल्ललन् लोलकुण्डलो युवराट् बभौ । स्वामिनोऽग्रे पुनर्वाललीलामाकलयन्निव ॥२७९ ॥ गृहाङ्गणजुपो भलुठित्वा पादपङ्कजे । श्रेयांसोऽमार्जयत् केशैभ्रमरभ्रमकारिभिः ॥२८॥ स उत्थाय जगद्भर्तुविधाय त्रिःप्रदक्षिणाम् । ननाम पादौ हांथुवारिभिः क्षालयन्निव ।। २८१॥
स ऊठ्ठीभूय पुरतः, स्वामिनो मुखपङ्कजम् । ईक्षाञ्चके मुदा चन्द्रं, चकोर इव पार्वणम् ।। २८२ ॥ ईदृशं क्व मया दृष्टं, लिङ्गमित्यभिचिन्तयन् । विवेकशाखिनो बीजं, जातिस्मरणमाप सः ॥ २८३ ॥ विवेद चैवं यत् पूर्वविदेहे चक्रवर्त्यभूत । भगवान वज्रनाभोऽयं, जातोऽहं चाऽस्य सारथिः ॥२८४ ॥ तस्मिन्नेव भवे भर्तुर्वज्रसेनाभिधः पिता । ईदृशं तीर्थकुल्लिङ्ग, धारयन्नीक्षितो मया ॥ २८५ ॥ खामिनो वज्रसेनस्य, पादान्ते समुंपाददे । वज्रनाभः परिव्रज्यामहमप्यस्य पृष्ठतः ॥ २८६ ॥ अर्हतो वज्रसेनस्य, मुखादश्रौषमित्यहम् । भरते वज्रनाभोऽसौ, भावी प्रथमतीर्थकृत् ॥ २८७ ॥ खयम्प्रभादींश्च भवान् , पर्याटममुना सह । अधुना वर्त्तते स्वामी, ममैष प्रपितामहः ॥ २८८॥ दिष्ट्या दृष्टो मया नाथः, समग्रजगतामपि । अनुग्रहीतुं मामेष, साक्षान्मोक्ष इवाऽऽगतः ॥ २८९ ॥ * समुपात्तवान् सं १, खं ॥
Jan Education International
For Private & Personal Use Only
www.jainelibrary.org.