SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte अदृश्यत स्वर्णगिरिः, परितः श्यामलो मया । अभिषिच्य पयस्कुम्भैर्विहितोऽधिकमुज्वलः ॥२४५॥।[युग्मम् ] सुबुद्धिश्रेष्ठिनाऽप्यैक्षि, गोसहस्रं वेश्युतम् । श्रेयांसेनाऽऽहितं तत्र, ततोऽर्कोऽप्यतिभासुरः ॥ २४६ ॥ अदर्शि सोमयशसा, राज्ञैको बहुभिः परैः । रुद्धः समन्ताच्छ्रेयांससाहाय्याजयमीयिवान् ॥ २४७ ॥ त्रयस्ते सदसि स्वप्नानन्योऽन्यस्य न्यवीविदन् । तन्निर्णयमजानन्तः स्वं स्वं स्थानं पुनर्ययुः ॥ २४८ ॥ प्रादुर्भावयितुमिव, तदा तत्स्वप्ननिर्णयम् । भिक्षार्थं प्राविशत् स्वामी, नगरं हस्तिनापुरम् ॥ २४९ ॥ संवत्सरं निराहारोऽप्यायान् वृषभलीलया । ददृशे वृषभस्वामी, नागरैर्जातसम्मदैः ॥ २५० ॥ उत्थायोत्थाय धावित्वा, धावित्वा च ससम्भ्रमम् । पौरैर्देशान्तरायातबन्धुवत् स्वाम्यवेष्ट्यत ।। २५१ ॥ कोsयुवाचैहि भगवन् !, गृहाण्यनुगृहाण नः । वसन्तोत्सववद् देव !, चिरादसि निरीक्षितः ।। २५२ ॥ कोऽप्यवादीदिदंस, स्नानीयं वसनं जलम् । तैलं पिष्टातकचेति, स्त्राहि स्वामिन्! प्रसीद नः ॥ २५३ ॥ कोsप्यूचे खोपयोगेन, स्वामिन् ! मम कृतार्थय । जात्यचन्दनकर्पूरकस्तूरीयक्षकर्दमान् ॥ २५४ ॥ कोऽप्युवाच जगद्रत्न !, रत्नालङ्करणानि नः । स्वाङ्गाधिरोपणात् स्वामिन्नलङ्कुरु दयां कुरु ॥ २५५ ॥ एवं व्यज्ञपयत् कोऽपि गृहे समुपविश्य मे । स्वामिनङ्गानुकूलानि, दुकूलानि पवित्रय ॥ २५६ ॥ कश्चिदप्यब्रवीदेवं, देव ! देवाङ्गनोपमाम् । प्रभो ! गृहाण नः कन्यां धन्याः स्मस्त्वत्समागमात् ॥ २५७ ॥ asure पादचारेण, क्रीडयाऽपि कृतेन किम् ? । इममारोह शैलाभं, कुञ्जरं राजकुञ्जर ! ॥ २५८ ॥ कोऽप्यजल्पन्मम हयान् गृहाणाऽर्कहयोपमान् । किमातिथेयाग्रहणादयोग्यान् विदधासि नः १ ॥ २५९ ॥ * न्यवीवदन् खं, आ ॥ + गृहाणानु सं १, २ ॥ For Private & Personal Use Only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy