SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका STER प्रथमं पर्व तृतीयः सर्गः पुरुषचरिते ऋषभचरितम् । ॥ ७५॥ सुमेरुशैलोद्यानेषु, कदाचिन्नन्दनादिषु । सदानन्दौ बिजहाते, स्वैरिणौ तौ समीरवत् ॥ २२९ ॥ नन्दीश्वरादितीर्थेषु, जग्मतुस्तौ कदाचन । शाश्वतप्रतिमार्चाय, श्राद्धश्रीणां फलं ह्यदः ॥ २३० ॥ तौ कदाचिद् विदेहादिक्षेत्रेषु श्रीमदर्हताम् । गत्वा समवसरणे, पपतुर्वाक्सुधारसम् ॥ २३१ ॥ चारणश्रमणेभ्यश्च, कदाचिद् धर्मदेशनाम् । तौ शुश्रुवतुरुत्कों , गीतं युवमृगाविव ।। २३२॥ सम्यक्त्ववन्तावक्षीणकोशौ विद्याधरीवृतौ । त्रिवर्गाबाधया राज्यं, यथावत् तौ प्रचक्रतुः॥ २३३ ॥ ते तु कच्छमहाकच्छादयो राजन्यतापसाः । गङ्गाया दक्षिणे कूले, मृगा इव वनेचराः ॥ २३४॥ वल्कलाच्छादनधराः, पादपा इव जङ्गमाः । आहारमुद्वान्तमिवाऽस्पृशन्तो गृहमेधिनाम् ॥ २३५ ॥ चतुर्थषष्ठादितपःपरिशोषितधातुकम् । धारयन्तः कृशतरं, रिक्तभत्रोपमं वपुः ॥ २३६ ॥ भुञ्जानाः पारणाहेपि, शीर्णपर्णफलादिकम् । हृदये भगवत्पादान् , ध्यायन्तोऽस्थुरनन्यगाः ॥ २३७॥ __ आर्यानार्येषु मौनेन, विहरन् भगवानपि । संवत्सरं निराहारश्चिन्तयामासिवानिदम् ॥ २३८ ॥ प्रदीपा इव तेलेन, पादपा इव वारिणा । आहारेणैव वर्तन्ते, शरीराणि शरीरिणाम ॥ २३९॥ द्विचत्वारिंशता भिक्षादोषैर्भृशमदूषितः । स तु वृत्त्या माधुकर्या, काले ग्राह्योऽनगारिणा ॥ २४०॥ अद्यापि यदि वाऽऽहारमतिक्रान्तदिनेष्विव । न गृह्णाम्यभिग्रहाय, किन्तूत्तिष्ठे पुनर्यदि ॥ २४१॥ अमी सहस्राश्चत्वार, इवाऽभोजनपीडिताः । तदा भङ्गं ग्रहीष्यन्ति, भाविनो मुनयोऽपरे ॥ २४२ ॥ खामी मनसिकृत्यैवं, भिक्षार्थं चलितस्ततः । पुरं गजपुरं प्राप, पुरमण्डलमण्डनम् ॥ २४३॥ तस्मिन् पुरे बाहुबलिसूनोः सोमप्रभस्य तु । राज्ञः कुमारेण तदा, खमे श्रेयांसभूभुजा ॥२४४॥ | ऋषभप्रभोः प्रथमा भिक्षा, श्रेयांसस्य लाप्रथमं दानं च। ॥७५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy