SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ वैताये विद्याधरनिकायाः। torrent _मा विद्यादुर्मदा विद्याधराः कार्पः स दुर्नयम् । धरणेन्द्रस्ततस्तेषां, मर्यादामेवमादिशत् ॥ २१३ ॥ जिनानां जिनचैत्यानां, तथा चरमवर्मणाम् । प्रतिमाप्रतिपन्नानां, सर्वेषां चाऽनगारिणाम् ॥ २१४ ॥ पराभवं लङ्घनं च, ये करिष्यन्ति दुर्मदाः। विद्यास्त्यक्ष्यन्ति तान् सद्यः, कृतालस्यानिव श्रियः२१५॥ [युग्मम्] सात्मस्त्रीकं हनिष्यन्ति, ये नरं येऽपि च स्त्रियम् । रमयिष्यन्त्यनिच्छन्ती, विद्यास्त्यक्ष्यन्ति तान् क्षणात्॥२१६ उच्चैरुदीर्य मर्यादामेवमाचन्द्रकालिकीम् । अलीलिखदहिस्वामी, रत्नभित्तिप्रशस्तिषु ॥ २१७ ॥ विद्याधराधिराजत्वे, सप्रसादं निवेश्य तौ । विरचय्य व्यवस्थां च, धरणेन्द्रस्तिरोदधे ॥ २१८॥ गौरीणां नाम्ना गौरेया, मनूनां मनुपूर्वका गान्धारीणां तु गान्धारा, मानवीनां तु मानवाः२१९ कैशिकीनां तु विद्यानां, कैशिकीपूर्वका मताः। विद्यानां भूमितुण्डानां, कीर्तिता भूमितुण्डकाः २२० विद्यानां मूलवीर्याणां, विश्रुता मूलवीर्यकाः। शङ्ककानां शङ्ककास्तु, पाण्डुकीनां तु पाण्डुकाः२२१ कालीनां कालिकेयास्तु,श्वपाकीनां श्वपाकका मातङ्गीनां तु मातङ्गाः,पार्वतीनां तु पार्वताः२२२ वंशालयानां विद्यानां, ख्याता वंशालया इति । विद्यानां पांसुमूलानां, प्रथिताः पांसुमूलकाः २२३ विद्यानां वृक्षमूलानां,विख्याता वृक्षमूलकाः। स्वस्वविद्याख्ययाख्याता, निकायाः षोडशाऽभवन्॥२२४॥ एवं विद्याधराणां तु, निकाया नमिभूभुजा । आदीयन्त विभज्याऽष्टावष्टौ विनमिना पुनः ॥ २२५॥ खके स्वके निकाये च, खकाय इव भक्तितः । स्थापयाञ्चक्रिरे ताभ्यां विद्याधिपतिदेवताः ॥ २२६ ॥ तो नित्यमृषभखामिमूर्तिपूजाकृतक्षणौ । धर्मानाबाधया भोगान् , बुभुजाते सुराविव ॥ २२७ ॥ दीपान्तजगतीजालकटकेषु कदापि तौ । रेमाते सह कान्ताभिः, शक्रेशानाविवाऽपरौ ॥ २२८ ।। Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy