SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ नानारत्नमयान्युच्चैलीलास्थानानि नाकिनाम् । नवग्रैवेयकाणीव, नवकूटानि बिभ्रतम् ॥ १८२ ॥ वैताये विद्याधराणां ऊवं योजनविंशत्या, दक्षिणोत्तरपार्श्वयोः । दधानं व्यन्तरावासश्रेण्यौ निवसने इव ॥ १८३॥ नगराणि। आमूलचूलिकं चारुकलधौतशिलामयम् । पृथिव्यां पादकटकमिवैकं विच्युतं दिवः ॥ १८४ ॥ मरुदन्दोलितोद्दामशाखिशाखाभुजैर्मुहुः । आह्वयन्तमिवाऽऽरात तौ, वैतादयगिरिमापतुः ॥ १८५॥ _ [दशभिः कुलकम् ]] क्ष्मातलाद् दशयोजन्या, उपरिष्टान्नमिर्नृपः । तत्राद्रौ दक्षिणश्रेण्यां, चक्रे पञ्चाशतं पुरीः ॥ १८६ ॥ प्राक्किन्नरनरगीतं, बहुकेतुपुरं ततः । पुण्डरीकं हरिकेतु, सेतुकेतुपुरं तथा ॥ १८७ ॥ सारिकेतुनगरं, श्रीबहुश्रीगृहं तथा । लोहार्गला-रिञ्जये च, स्वर्गलीलपुरं तथा ॥ १८८॥ वज्रागलपुरं वज्रविमोकनगरं तथा । तथा महीसार-पुरजये सुकृतमुख्यपि ॥ १८९॥ चतुर्मुखी बहुमुखी, रता च विरताऽपि च । आखण्डलपुरं चापि, विलासयोनिपत्तनम् १९० अपराजितं कांची-दामाख्ये सुविनयं नमः। क्षेमङ्करंसह-चिहपुरं कुसुमपुर्यपि ॥ १९१॥ सञ्जयन्ती शपुरं, जयन्ती वैजयन्त्यपि । विजया क्षेमकरं च, चन्द्रभासपुरं तथा ॥१९२॥8 रविभासपुरं सप्तभूतलावासमेव च । सुविचित्रं महानं च, चित्रकूटं त्रिकूटकम् ॥ १९३ ॥ वैश्रवणकूट-शर्शिपुरे रविपुरं तथा । विमुखी-चाहिन्यौ सुमुखी नित्योयोतिनी तथा ॥१९४॥ श्रीरथनूपुरचक्रवालं तु नगरोत्तमम् । एषां पुराणां मध्यस्थमध्युवास स्वयं नमिः ॥ १९५ ॥ तथैव चोत्तरश्रेण्यां, विनमिः पर्यसूत्रयत् । षष्टिं पुराणि सद्योपि, नागराजस्य शासनात् ॥१९६॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy