SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व तृतीयः सर्गः ऋषभचरितम् । | वैताब्यगिरिः। अमुमेव जगन्नाथ, सेवमानः शरीरभाक् । प्रामोत्यपुनरावृत्ति, सदानन्दमयं पदम् ॥ १६६॥ इह त्रिभुवनाधीशः, सिद्धरूपः परत्र च । असाविव भवेद् देही, स्वामिनोऽस्यैव सेवया ॥१६७॥ दासोऽहं स्वामिनोऽमुष्य, युवामपि च सेवको । तत्सेवायाः फलं विद्याधरैश्वर्यं ददामि वाम् ॥ १६८॥ स्वामिसेवाप्तमेवैतद्, बुध्येथां हन्त! माऽन्यथा । उयोतोऽरुणजन्माऽपि, सूर्यजन्मैव यद् भुवि ॥१६९॥ सम्बोध्यैवं ददौ गौरीप्रज्ञप्तीप्रमुखां तयोः । अष्टचत्वारिंशद्विद्यासहस्री पाठसिद्धिदाम ॥ १७॥ आदिदेश च वैताट्ये, गत्वा श्रेणिद्वये युवाम् । नगराणि परिष्ठाप्य, कुर्वाथां राज्यमक्षयम् ॥ १७१॥ नत्वाऽर्हन्तं तौ विमानं, पुष्पकाख्यं विकृत्य च । आरुह्य च प्रचलितो, पन्नगस्वामिना समम् ॥१७२॥ स्वामिसेवातरुफलभूतां तां सम्पदं नवाम् । गत्वा पित्रोः कच्छमहाकच्छयोस्तावशंसताम् ॥ १७३ ॥ ज्ञापयामासतुः स्वर्द्वि, गत्वाऽयोध्यापतेश्च तौ । मानिनां मानसिद्धिर्हि, सफला स्थानदर्शिता ॥ १७४ ॥ तत्र खजनमादाय, सर्व परिजनं च तौ । विमानवरमारोह्य, प्रति वैताट्यमीयतुः॥ १७५ ॥ प्रान्तयोलवणाम्भोधिवीचीनिचयचुम्बितम् । पूर्वापरदिशोरन्तर्मानदण्डमिव स्थितम् ॥ १७६ ॥ आघाटभूतं भरतदक्षिणोत्तरभागयोः । पञ्चाशतं योजनानि, दक्षिणोत्तरयोः पृथुम् ॥ १७७॥ षड् योजनानि सक्रोशान्यवगाढं महीतले । उत्सेधं धारयन्तं च, पञ्चविंशतियोजनीम् ॥ १७८ ॥ प्रसारिताभ्यां बाहुभ्यामिव दूराद् हिमाद्रिणा । गङ्गासिन्धुस्रवन्तीभ्यां, समाश्लिष्टं समन्ततः ॥१७९॥ भरतार्धश्रियो लीलाविश्रामसदने इव । खण्डप्रपाता-तमिस्राभिधाने दधतं गुहे ॥ १८० ॥ सिद्धायतनकूटेन, शाश्वतप्रतिमाजुषा । बिभ्राणमद्भुतां शोभां, सुमेरुमिव चूलया ॥ १८१ ॥ ॥७३॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy