________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
द्वितीय:
सर्ग: ऋषभचरितम् ।
॥७०॥
खामिदीक्षोत्सवेनाऽऽसीनारकाणामपि क्षणम् । शरदातपतप्तानामिवाऽभ्रच्छायया सुखम् ॥ ७५ ॥ ज्ञानं प्रभोर्मय॑क्षेत्रमनोद्रव्यप्रकाशकम् । मनःपैर्ययमुत्पेदे, दीक्षासङ्केतभागिव ॥ ७६ ॥ वार्यमाणाः सुहृद्वर्ग, रुध्यमानाश्च बन्धुभिः । निषिध्यमाना भरतेश्वरेणाऽपि मुहुर्मुहुः ॥ ७७ ॥ सरन्तः स्वामिनः पूर्वप्रसादमतिशायिनम् । तत्पादपद्मविरहस्याऽसहाः पट्पदा इव ॥ ७८ ॥ हित्वा पुत्रकलत्रादि, राज्यं च तृणलीलया । या गतिः स्वामिनोऽस्माकमपि सैवेति निश्चयात् ॥ ७९ ॥ नृपाः कच्छमहाकच्छादय आददिरे मुदा । दीक्षां सहस्राश्चत्वारो, भृत्यानामेष हि क्रमः॥८॥
[चतुर्भिः कलापकम् ] आदिनाथं प्रणम्याऽथ, शचीनाथादयः सुराः । एवं विरचयामासू, रचिताञ्जलयः स्तुतिम् ॥ ८१॥ गुणांस्तव यथावस्थान् , वयं वक्तुमनीश्वराः । स्तुमस्तथाऽपि प्रज्ञा हि, त्वत्प्रभावाद् भृशायते ॥ ८२॥ बसस्थावरजन्तूनां, हिंसायाः परिहारतः । स्वामिन्नभयदानैकसत्रिणे भवते नमः ॥ ८३ ॥ नमस्तुभ्यं मृषावादपरित्यागेन सर्वथा । पथ्यतथ्यप्रियवचःसुधारसपयोधये ॥ ८४ ॥ भगवन्नदत्तादानप्रत्याख्यानखिलाध्वनि । प्रथमायाऽध्वनीनाय, नमस्तुभ्यं जगत्पते ! ॥८५॥ अखण्डितब्रह्मचर्यमहातेजोविवस्वते । भगवन् ! मन्मथध्वान्तमथनाय नमोस्तु ते ॥ ८६ ॥ सर्वमेकपदे नाथ!, पृथिव्यादिपरिग्रहम् । पलालवत् त्यक्तवते, तुभ्यं मुक्त्यात्मने नमः ॥ ८७॥ : तुभ्यं नमः पञ्चमहाव्रतभारककुद्मते । संसारसिन्धुतरणकर्मठाय महात्मने । ८८॥ *"पर्याय खं आ, ॥ ३ भ्रमराः । २ भृशं भवतीति भृशायते। खिलेऽध्व खंता ॥ ३ पथिकाय ।
कच्छ-महाकच्छादी दीक्षा।
॥७
॥
Jain Education Inte
l
For Private & Personal use only
www.jainelibrary.org