SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ SANCTUALLOCALENDAROGRECRUS विमानमिव सर्वार्थसिद्धं प्राक्तनजन्मनि । नाम्ना सिद्धार्थमुद्यानमाससाद जगत्पतिः॥६१॥ तसाच्च शिविकारत्नात्, संसारादिव निर्ममः । समुत्ततार नाभेयस्तत्राऽशोकतरोस्तले ॥ ६२॥ तानि वस्त्राणि माल्यानि, भूषणानि च नाभिभूः । उज्झाञ्चकार सपदि, कपायानिव सर्वतः ॥ ६३ ॥ कोमलं धवलं सूक्ष्म, व्युतं चन्द्रकरैरिव । देवदूष्यं देवराजः, स्कन्धदेशे न्यधाद् विभोः ॥ ६४ ॥ तदा च चैत्रबहुलाष्टम्यां चन्द्रमसि श्रिते । नक्षत्रमुत्तराषाढामहो भागेऽथ पश्चिमे ॥६५॥ भवजयजयारावकोलाहलमिषाद् भृशम् । उद्गिरद्भिर्मुदमिव, वीक्ष्यमाणो नरामरैः ॥६६॥ उच्चखान चतसृभिर्मुष्टिभिः शिरसः कचान् । चतसृभ्यो दिग्भ्यः शेषामिव दातुमनाः प्रभुः ॥ ६७॥ 1 [विभिर्विशेषकम् ] प्रतीच्छति स सौधर्माधिपतिः कुन्तलान् प्रभोः। वस्त्राञ्चले वर्णान्तरतन्तुमण्डनकारिणः ॥ ६८॥ मुष्टिना पञ्चमेनाऽथ, शेषान् केशान् जगत्पतिः । समुच्चिखनिषन्नेवं, ययाचे नमुँचिद्विषा ॥ ६९॥ नाथ ! त्वदंसयोः स्वर्णरुचोर्मरकतोपमा । वातानीता विभात्येषा, तदास्तां केशवल्लरी ॥ ७० ॥ तथैव धारयामास, तामीशः केशवल्लरीम् । याज्जामेकान्तभक्तानां, स्वामिनः खण्डयन्ति न ॥७१ ॥ सौधर्मेशः क्षीरसिन्धौ, केशान् क्षिप्त्वाऽभ्युपेत्य च । रङ्गाचार्य इवारक्षत्, तुमुलं मुष्टिसंज्ञया ॥७२॥ कृतषष्ठतपःकर्मा, कृतसिद्धनमस्कृतिः । देवासुरमनुष्याणां, समक्षमथ नाभिभूः॥ ७३ ॥ सावद्ययोगं सकलं, प्रत्याख्यामीत्युदीरयन् । मोक्षाध्वनो रथमिव, चारित्रं प्रत्यपद्यत ॥७४॥[युग्मम्] १ चैत्रकृष्णाष्टम्याम् । २ समुत्खनितुमिच्छन् । ३ इन्द्रेण । Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy