________________
प्रथमं पर्व
त्रिपष्टिशलाका
द्वितीयः
पुरुषचरिते
सर्गः
ऋषभचरितम् ।
ऋषभप्रभो
शुभकौसुम्भवसना, वर्क्सवेश्मकुलाङ्गनाः । पूर्णपात्रान् दधुः काश्चित्, सेन्दुसन्ध्यासहोदराः ॥ ४५ ॥ काश्चिदप्यश्चलान् पाणिपझैश्चपललोचनाः । चामराणीव चलयामासुरालोकने प्रभोः॥४६॥ काश्चिदप्यभि नामेयं, नार्यो लाजान् निचिक्षिपुः । आत्मनः पुण्यबीजानि, वपन्त्य इव निर्भरम् ॥४७॥ चिरं जीव चिरं नन्देत्याद्याशीर्वचनानि च । काश्चिजगुर्निजकुलसुवासिन्य इवोच्चकैः ॥४८॥ निश्चलाक्ष्यश्चलाक्ष्योऽपि, मडगा मन्दगा अपि । प्रभुं पश्यन्त्योऽनुयान्त्यश्चाऽभूवन पुरयोषितः॥४९॥
नभस्यथ समापेतुरपि देवाश्चतुर्विधाः । महाविमानैः कुर्वाणा, एकच्छायं महीतलम् ॥५०॥ मदाम्भोवर्षिभिः केचित्, कुञ्जरैर्निजरोत्तमाः । आपतन्तो विदधिरे, दिवं मेघमयीमिव ॥५१॥ अपारगगनाम्भोधेस्तरण्डैस्तुरगोत्तमैः । कशानौदण्डसहिता, आपतन् पतिमीक्षितुम् ॥ ५२ ॥ मूर्तिमद्भिः पवमानैरिवाऽतिशयिरंहसा । स्पन्दनैर्युसदः केचिदासदन्नाभिनन्दनम् ॥ ५३॥ अन्योऽन्यं वाहनक्रीडाप्रतिज्ञातपणा इव । प्रतीक्षाञ्चक्रिरे मित्रमपि न त्रिदिवौकसः ॥ ५४॥ खाम्यसौ स्वाम्यसावेवं, कथयन्तो मिथः सुराः । वाहनानि स्थिरीचक्रुः, प्राप्तग्रामा इवाऽध्वगाः ॥ ५५॥ विमानहम्यः करिभिस्तुरगैः स्पन्दनैरपि । नभस्यभूद् द्वितीयेव, विनीता नगरी तदा ॥५६॥ परिवत्रे जगन्नाथः, प्रकृष्टसुरमानुषैः । मानुषोत्तरशिखरीवाऽहस्करनिशाकरैः ॥ ५७ ॥ पार्श्वयोर्भरतबाहुबलिभ्यामुपसेवितः । रोधोभ्यामिव पाथोधिबभासे वृषभध्वजः॥ ५८॥
अष्टानवत्या तनयैर्विनीतैरितरैरपि । अन्वगामि जगत्स्वामी, यथनाथ इव द्विपैः ॥ ५९॥ , माता पत्न्यौ च पुन्यौ च, स्त्रियोऽन्या अपि साश्रवः। सावश्यायकणाः पअिन्य इव प्रभुमन्वगुः ॥६॥
दीक्षामहोरसवः।
॥६९॥
Jain Education International
For Private & Personal use only
al
www.jainelibrary.org.