SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ऋषभप्रभोर्दीक्षामहोत्सवः। अनुत्तरविमानानां, विमानमिव किञ्चन । सुदर्शनाख्यां शिविकां, पत्ये हरिरसूत्रयत् ॥ २९ ॥ दत्तहस्तो महेन्द्रेण, शिविकामारुरोह ताम् । प्रभुः प्रथमसोपानमिव लोकाग्रवेश्मनः॥३०॥ आदौ रोमाश्चितैर्मत्यैरमत्यैस्तदनन्तरम् । उद्दधे शिविका मूर्तपुण्यभार इवाऽऽत्मनः ॥३१॥ वर्यमङ्गलतूर्याणि, ताडितानि सुरासुरैः । अपूरयन् दिशो नादैः, पुष्करावर्त्तका इव ॥ ३२ ॥ चकाशे चामरद्वन्द्वं, पार्श्वतस्त्रिजगत्पतेः । नैर्मल्यमिव मूर्तिस्थं, परलोकेहलोकयोः ॥३३॥ प्रीणितश्रवणो नृणामुच्चैर्जयजयारवः । चक्रे पत्युर्वन्दिवृन्दैवि वृन्दारकवजैः ॥ ३४ ॥ नाथोऽपि शिविकारूढः, पथि गच्छन्नराजत । सुरोत्तमविमानस्थशाश्वतप्रतिमोपमः ॥ ३५॥ भगवन्तं तथाऽऽयान्तं, दृष्ट्वा सर्वेऽपि नागराः । सम्भ्रमादन्वधावन्त, पितरं बालका इव ॥ ३६ ॥ दूरतः खामिनं द्रष्टुं, जीमूतमिव केकिनः । उच्चपादपशाखासु, केचिदारुरुहुनराः ॥३७॥ केचिच्च स्वामिनं द्रष्टुमारूढा मार्गवेश्मसु । चन्द्रातपमिव प्रौढ़, सूर्यातपमजीगणन् ॥ ३८ ॥ अश्वानारुरुहुः केपि, कालक्षेपासहिष्णवः । त्वरितं स्वयमेवाऽश्वा, इव पुप्तुविरे पथि ॥ ३९ ॥ अन्तः प्रविश्य लोकानां, केपि वारामिवाऽऽतयः। अग्रे प्रादुर्भवन्ति स्म, स्वामिनो दर्शनेच्छया ॥४०॥ अभि त्रिभुवनाधीशं, धावन्त्यः काश्चिदङ्गनाः । वेगात् त्रुटितहारेण, लाजाञ्जलिमिवाऽमुचन् ॥ ४१॥ । आगच्छतो जगदत्तुरग्रे तस्थुर्दिदृक्षया । कटिस्थवाला आरूढवानरा इव वीरुधः ॥ ४२ ॥ भुजावुभयतः सख्योः , काश्चिदालम्ब्य सत्वरम् । कृत्वा पक्षानिवाऽऽगच्छन्, कुचकुम्भमरालसाः ॥४३॥ गतिभङ्गकरान् भारान्, स्वान् नितम्बान् मृगीदृशः । निनिन्दुः काश्चन स्वामिप्रेक्षणक्षणकामया ॥४४॥ १ आतिः जल निवासी पक्षी । Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy