SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ त्रिपष्टि शलाकापुरुषचरिते ॥६८॥ प्रथमं पर्व द्वितीयः सर्गः ऋषभचरितम्। तत्पार्श्वयोश्चकाशाते, आपतन्तौ च चामरौ । भरतार्द्धद्वयादेष्यच्छ्यिोर्दूताविवाऽऽगतौ ॥ १४ ॥ चकासामास वासोभिर्मुक्तालङ्करणैरपि । गुणैरिव खेरत्यन्तविशदैर्वृषभात्मजः॥१५॥ शशीव स नवो राजा, महामहिमभाजनम् । नमश्चक्रे राजचक्रेणाऽऽत्मकल्याणकाम्यया ॥१६॥ अथो ददौ बाहबलिप्रभृतिभ्यो यथोचितम् । अन्येभ्योऽपि च पुत्रेभ्यो, विभज्य विषयान् विभुः॥१७॥1 __ततश्च सांवत्सरिकं, दानमारभत प्रभुः । कल्पद्रुम इव खेच्छाप्रार्थनानुगुणं नृणाम् ॥ १८ ॥ यो येनार्थी स तद् गृहात्वेवमाधोषणां विभुः । चतुष्पथप्रतोल्यादिस्थानेषूच्चैरकारयत् ॥ १९ ॥ चिरभ्रष्टानि नष्टानि, प्रक्षीणखामिकानि च । अतिप्रनष्टसेतूनि, गिरिकुञ्जगतानि च ॥२०॥ श्मशानस्थानगूढानि, गुप्तानि च गृहान्तरे । रजतस्वर्णरत्नादिधनान्याहृत्य सर्वतः ॥ २१॥ वासवादिष्टधनदप्रेरिता जृम्भका सुराः । ददतोऽपूरयन् भर्तुः, पयांसीव पयोमुचः ॥२२॥ [त्रिभिर्विशेषकम् एक कोटी हिरण्यस्य, लक्षाण्यष्टौ च नाभिभूः। दिने दिने ददौ सूरोदयादाभोजनक्षणम् ॥ २३ ॥ वत्सरेण हिरण्यस्य, ददौ कोटीशतत्रयम् । अष्टाशीतिं च कोटीना, लक्षाशीतिं च नाभिभूः॥२४॥ जातसंसारवैराग्या, दीक्षया स्वामिनो जनाः । शेषामात्रमदोऽगृह्णनिच्छादानेऽपि नाधिकम् ॥ २५॥ ___ अथ वार्षिकदानान्ते, वासवश्चलितासनः । भक्त्याऽन्य इव भरतो, भगवन्तमुपास्थित ॥ २६ ॥ समं सुरखरैरम्भस्कुम्भहस्तैर्जगत्पतेः । दीक्षोत्सवाभिषेकं स, चक्रे राज्याभिषेकवत् ॥ २७॥ . मड-पनीतं तदधिकारिणेव बलारिणा | दिव्यालङ्कारवस्त्रादि, पर्यधत्त जगद्विभुः ॥२८॥ ऋषभप्रभोवार्षिक दानम्। G ॥६८॥ Jain Education Internation For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy