SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ऋषभप्रभुणा भरतस्य राज्यदानम्। तृतीयः सर्गः। आजूहवदथ स्वामी, सामन्तादीन् समन्ततः । भरतं बाहुबल्यादींस्तनयानितरानपि ॥१॥ प्रभुर्वभाषे भरतं, राज्यमादत्स्व वत्स ! नः । वयं संयमसाम्राज्यमुपादास्यामहेऽधुना ॥२॥ खामिनो वचसा तेन, स्थित्वा क्षणमधोमुखः। प्राञ्जलिर्भरतो नत्वा, जगादेवं सगद्गदम् ॥३॥ त्वत्पादपद्मपीठाग्रे, लुठतो मे यथा सुखम् । रत्नसिंहासने स्वामिन्नासीनस्य तथा नहि ॥४॥ त्वदने धावतः पयां, यथा मम सुखं विभो ! । सलीलसिन्धुरस्कन्धाधिरूढस्य तथा नहि ॥५॥ त्वत्पादपङ्कजच्छायानिलीनस्य यथा सुखम् । जायते मे सितच्छत्रच्छायाच्छन्नस्य नो तथा ॥६॥ त्वया विरहितः स्यां चेत् , तत् किं साम्राज्यसम्पदा । त्वत्सेवासुखदुग्धाब्धे, राज्यसौख्यं हि विन्दुवत् ॥७॥ खाम्यपीत्यवदद् राज्यममाभिस्तावदुज्झितम् । पृथ्व्यां च पार्थिवाभावे, मात्स्यो न्यायः प्रवर्तते ॥८॥॥ पृथिवीं तदिमां वत्स!, यथावत् परिपालय । आदेशकारकोऽसि त्वमादेशोऽप्ययमेव नः ॥९॥ सिद्धादेशं प्रभोरेवं, स लचितुमनीश्वरः । आमेत्यभाषत गुरुष्वेषैव विनयस्थितिः ॥१०॥ प्रणम्य स्वामिनं मूर्धा, विनीतो भरतस्ततः । सिंहासनमलञ्चक्रे, पित्र्यं वंशमिवोन्नतम् ॥११॥ खाम्यादेशादथाऽऽमात्यसामन्तानीकपादिभिः । प्रभोरिव सुरैश्चक्रेऽभिषेको भैरतस्य तु ॥१२॥ तदा च शुशुभे छत्रं, पार्वणेन्दुसहोदरम् । स्वामिनः शासनमिवाऽखण्डं भरतमूर्द्धनि ॥ १३ ॥ १ यथा गुरुल घुमत्स्यान् मत्स्याः भक्षयन्ति तद्वद् राजानं विना लोका अपि एवं कुर्वन्ति । * भरतेशितुः सं १, २ खं ॥ Jain Education Interati For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy