SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ ६६॥ Jain Education Internatio · उच्चितेषु च पुष्पेषु, तद्वियोगरुजार्दिता । अरोदीदिव वासन्ती, मञ्जुगुञ्जन्मधुत्रता ।। १००३ ॥ मल्ली मुच्चित्य गच्छन्ती, काचित् तल्लनवाससा । तस्थौ निषिध्यमानेव, तया माऽन्यत्र गा इति ॥ १००४ ॥ • चम्पकं चिन्वती काचिदलियूनोत्पतिष्णुना । दश्यते स्माऽधरदले, क्रुधेवाऽऽश्रयभङ्गतः ।। १००५ ।। उच्चैरुच्चैः सुमनसः, काचिदुत्क्षिप्तदोर्लता । जहार मनसा सार्द्धं, यूनां दोर्मूलदर्शिनाम् ॥ १००६ ।। प्रत्यग्रपुष्पस्तवकसनाथीकृतपाणयः । रेजुः पुष्पावचायिन्यो, जङ्गमा इव वलयः ॥ १००७ ॥ प्रतिशाखं विलग्नाभिः, पुष्पोच्चयकुतूहलात् । रेजिरे शाखिनः स्त्रीभिः सञ्जातस्त्रीफला इव ॥ १००८ ॥ मल्लिकाकोरकैः कोऽपि, कामिन्याः स्वयमुच्चितैः । सर्वाङ्गाभरणं चक्रे, मुक्तादामविडम्बकम् ।। १००९ ।। प्रियायाः कोऽपि धम्मिल्लं, विकचैर्निजपाणिना । कुसुमैः पूरयामास, कुसुमेपोरिवेषुधिम् ॥ १०१० ॥ पञ्चवर्णैः स्रजं कश्चिद्, ग्रथित्वा कुसुमैः स्वयम् । विडम्बितेन्द्रधनुषं दत्त्वा कान्तामतोषयत् ॥ १०११ ॥ सलीलं प्रियया कोsपि, प्रक्षिप्तं पुष्पकन्दुकम् । प्रतीच्छति स्म पाणिभ्यां प्रसादमिव किङ्करः ||१०१२ | दोलान्दोलनसञ्जातयातायाता मृगीदृशः । जघ्नुः पादैः पादपाग्रान्, सापराधान् पतीनिव ॥ १०१३ ॥ दोलारूढा नवोढा, पृच्छन्तीनां धवाभिधाम् । काऽप्यालीनां लताघातान्, सेहे हीमुद्रितानना ॥ १०१४ ॥ · कातराक्ष्या समं कश्चिदारूढः सम्मुखीनया । गाढमन्दोलयद् दोलां, तद्गाढालिङ्गनेच्छया ।। १०९५ ॥ प्रतिशाखं लम्बमानदोलान्दोलनलीलया । रेजुरुद्यानवृक्षेषु, युवानः प्लवगा इव ॥ १०१६ ॥ एवं खेलायमानेषु तत्र पौरजनेष्वथ । दध्यौ स्वामी किमीदृक्षा, क्रीडाऽन्यत्राऽपि कुत्रचित् १ ॥ १०१७ | जज्ञेऽथाऽवधिना स्वामी, स्वःसुखं चोत्तरोत्तरम् । अनुत्तरस्वर्गसुखं, भुक्तपूर्वं स्वयं च यत् ॥ १०९८ ॥ For Private & Personal Use Only प्रथमं पर्व द्वितीयः सर्गः ऋषभ चरितम् । ऋषभप्रभुणा वसन्तोत्सवनिरीक्षणम् । ॥ ६६ ॥ www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy