SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व द्वितीयः त्रिषष्टिशलाकापुरुषचरिते ॥६५॥ सर्गः ऋषभचरितम्। ऋषभप्रभो राज्यव्यवस्था। तदाम्नायात् कलादीदमद्यापि भुवि वर्तते । अर्वाचीनैर्बुद्धिमद्भिर्निबद्धं शास्त्ररूपतः॥९७२ ॥ स्वामिनः शिक्षया दक्षो, लोकोऽभूदखिलोऽपि सः । अन्तरेणोपदेष्टारं, पशवन्ति नरा अपि ॥ ९७३ ॥ तदोग्र-भोग-राजन्य-क्षत्रभेदश्चतुर्विधान् । जनानासूत्रयद् विश्वस्थितिनाटकसूत्रभृत् ॥ ९७४ ॥ आरक्षपुरुषा उग्रा, उग्रदण्डाधिकारिणः । भोगा मत्र्यादयो भर्तुत्रायस्त्रिंशा हरेरिख ।। ९७५॥ राजन्या जज्ञिरे ते ये, समानवयसः प्रभोः । अवशेषास्तु पुरुषा, बभूवुः क्षत्रिया इति ॥ ९७६ ॥ विरचय्य नवामेवं, व्यवहारव्यवस्थितिम् । नवोढामिव बुभुजे, नवां राज्यश्रियं विभुः॥९७७॥ यथाऽपराधं दण्ड्येषु, दण्डं प्रायुत नाभिभूः । व्याधितेषु यथा व्याधिचिकित्सक इवाऽगदम् ॥९७८॥ दण्डभीतस्तदालोकश्चक्रे चौर्यादिकं न हि । एकैव दण्डनीतिर्हि, सर्वान्यायाहिजाङ्गुली ॥९७९ ॥ क्षेत्रोद्यानगृहादीनां, मर्यादां कोऽपि कस्यचित् । नाऽत्यकामत् प्रभोराज्ञामिव लोकः सुशिक्षितः॥९८०॥ कालेऽवर्षजलधरः, सस्यनिष्पत्तिहेतवे । न्यायधर्म जगद्भर्तुर्गर्जाव्याजात् स्तुवन्निव ॥९८१॥ सस्यक्षेत्ररिक्षुवाटैर्गोकुलैश्चाऽऽकुलास्तदा । रेजुर्जनपदाः स्वा, स्वाम्यगाभिधायिनः ॥ ९८२॥ हेयादेयविवेकज्ञीकृतैर्लोकैर्व्यधाद् विभुः । प्रायेण भरतक्षेत्रं, विदेहक्षेत्रसन्निभम् ॥ ९८३॥ राज्याभिषेकात् प्रभृति, पृथिवीं परिपालयन् । त्रिषष्टिं पूर्वलक्षाणि, नाभिभूरत्यवाहयत् ॥ ९८४ ॥ प्रभुः स्मरकृतावासे, मधुमासे समेयुषि । अगादन्येधुरुद्याने, परिवारानुरोधतः॥९८५ ॥ पुष्पवासगृहे तत्र, पुष्पाभरणभूषितः । आसाञ्चके जगत्स्वामी, पुष्पमास इवाऽङ्गवान् ॥९८६ ॥ १ पशुवदाचरन्ति । २ सर्पोचाटनी मन्त्रविद्या । Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy