SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ पुत्र-पुत्रीभ्यः कला-लिप्यादिप्रदर्शनम् । तानि पञ्चापि शिल्पानि, प्रत्येकं विशिभेदतः । शतधा प्रासरल्लोके, स्रोतांसि सरितामिव ॥ ९५७ ॥ तृणहारकाष्ठहारकृषिवाणिज्यकान्यपि । कर्माण्यासूत्रयामास, लोकानां जीविकाकृते ॥ ९५८ ॥ स्वामी सामदानभेददण्डोपायचतुष्टयम् । जगद्व्यवस्थानगरीचतुष्पथमकल्पयत् ॥ ९५९ ॥ द्वासप्ततिकलाकाण्डं, भरतं सोऽध्यजीगपत् । ब्रह्म ज्येष्ठाय पुत्राय, ब्रूयादिति नयादिव ॥९६०॥ भरतोऽपि स्वसोदस्तिनयानितरानपि । सम्यगध्यापयत् पात्रे, विद्या हि शतशाखिका ॥ ९६१ ॥ नाभेयो बाहुबलिनं, भिद्यमानान्यनेकशः । लक्षणानि च हस्त्यश्वस्त्रीपुंसानामजिज्ञपत् ॥ ९६२॥ अष्टादश लिपीाया, अपसव्येन पाणिना । दर्शयामास सव्येन, सुन्दर्या गणितं पुनः॥९६३ ॥ मानोन्मानाऽवमानानि, प्रतिमानानि वस्तुषु । पोतान् प्रोतांश्च मण्यादीन् , प्रभुः प्रावर्तयत् तदा ॥९६४ ॥ राजाध्यक्षकुलगृहसाक्षिभिः समजायत । व्यवहारस्तदादिष्टो, विवादिप्रतिवादिनाम् ॥ ९६५ ॥ नागाधर्चा धनुर्वेदश्चिकित्सोपासने रणः । अर्थशास्त्रं बन्धघातवधगोष्टयस्ततोऽभवन् । ९६६ ॥ असौ माता पिता भ्राता, भार्या पुत्रो गृहं धनम् । ममेत्यादि च ममताऽभूजनानां तदादिका ॥९६७॥ , दृष्ट्वा स्वामिनमुद्वाहे, प्रसाधितमलङ्कृतम् । प्रासाधयदलञ्चक्रे, लोकोऽपि खं ततः परम् ॥ ९६८ ॥ तदा दृष्ट्वा प्रभुकृतं, पाणिग्रहणमादिमम् । लोकोऽपि कुरुतेऽद्यापि, ध्रुवो ह्यध्वा महत्कृतः ॥९६९ ॥ दत्तकन्योपयमनं, प्रभूद्वाहात् प्रभृत्यभूत् । चूडोपनयनक्ष्वेडापृच्छा अपि ततोऽभवन् ॥ ९७० ॥ एतच्च सर्व सावद्यमपि लोकानुकम्पया । स्वामी प्रवर्त्तयामास, जानन् कर्त्तव्यमात्मनः ॥ ९७१ ॥ * विशमे सं १, २, आ ॥ १ परमतत्त्वम् । २ दक्षिणेन । जन्मानप्रमाणानि सं १॥ ३ गजादिपूजा । ४ स्थिरः । Jan Education Internation For Private & Personal Use Only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy