________________
IGL
Jain Education Internationa
असाधुशासने साधुपालने कृतकर्मणः । प्रत्यङ्गानि स्वकानीव, मन्त्रिणो विदधे विभुः ॥ ९२६ ॥ चौर्यादिरक्षणे दक्षानारक्षानप्यसूत्रयत् । सुत्रामेव लोकपालान्, राजा वृषभलाञ्छनः ॥ ९२७ ॥ अनीकस्याङ्गमुत्कृष्टमुत्तमाङ्गं तनोरिव । राज्यस्थित्यै राजहस्ती, हस्तिनः स समग्रहीत् ॥ ९२८ ॥ आदित्यतुरगस्पर्द्धयेवात्युद्धुरकन्धरान् । बन्धुरान् धारयामास, तुरगान् वृषभध्वजः ॥ ९२९ ॥ सुश्लिष्टकाष्टघटितान्, स्यन्दनान् नाभिनन्दनः । विमानानीव भूस्थानि, सूत्रयामास च खयम् ॥ ९३० ॥ सुपरीक्षितसत्त्वानां पत्तीनां च परिग्रहम् । नाभिसूनुस्तदा चक्रे, चक्रवर्तिभवे यथा । ९३१ ॥ नव्यसाम्राज्यसौधस्य, स्तम्भानिव बलीयसः । अनीकाधिपतींस्तत्र स्थापयामास नाभिभूः ॥ ९३२ ॥ गो-बलीवर्द - करभ - सैरिभा -ऽश्वतरादिकम् । आददे तदुपयोगविदुरो हि जगत्पतिः ॥ ९३३ ॥ कल्पद्रुषु समुच्छन्नेष्वनपत्यान्वयेष्विव । कन्दमूलफलादीनि तदा बुभुजिरे जनाः ॥ ९३४ ॥ शालि - गोधूम-चणक- मुद्गाद्या ओषधीरपि । तृणवत् स्वयमुत्पन्नास्ते चखादुरपाकिमाः ॥ ९३५ ॥ · तस्मिन्नजीर्यत्याहारे, तैर्विज्ञप्तोऽवदद् विभुः । मृदित्वा त्वचयित्वा च, हस्तैस्ताः खादताऽधुना ॥ ९३६ ॥ उपदेशं जगद्भर्तुस्तेषां पालयतामपि । काठिन्यादोषधीनां तु, नाऽऽहारो जीर्यति स्म सः ॥ ९३७ ॥ तैर्विज्ञप्तः पुनः स्वामीत्यूचे सङ्घष्य पाणिभिः । तास्तिमित्वा जलैः पत्रपुटे धृत्वा च खादत ॥ ९३८ ॥ ते तथा चक्रिरे तत्राऽप्यजीर्णाहारवेदनाम् । तैर्विज्ञप्तो जगन्नाथः, पुनरप्येवमादिशत् ॥ ९३९ ॥ पूर्वोक्तविधिनाधायौषधीर्मुष्टौ निधाय च । आतपे कक्षयोः क्षित्वा, भक्षयन्तु ततः सुखम् ॥ ९४० ॥ तत्राऽप्यजीर्णाहारेण, विधुरेषु जनेष्वथ । तरुखण्डे मिथः शाखाघर्षणादग्निरुत्थितः ।। ९४१ ।।
For Private & Personal Use Only
*4***
अहत्पत्तिः ।
www.jainelibrary.org