SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ RECORECASSSSSASSACROSECRESCRENCE सम्भूय ऋषभनाथं, मिथुनान्युपतस्थिरे । तच्चाऽसमञ्जसं सर्व, जायमानं व्यजिज्ञपन् ॥ ८९६॥ ज्ञानत्रयधरो जातिसरः स्वामीत्यवोचत । मर्यादोल्लविनां लोके, राजा भवति शासिता ॥ ८९७ ॥ आसयित्वाऽऽसनेऽत्युच्चेऽभिषिक्तः प्रथमं हि सः। चतुरङ्गचलोपेतः, स्यादखण्डितशासनः ॥ ८९८ ॥ तेऽप्यूचुर्भव राजा नस्त्वमेव किमुपेक्षसे । ईक्ष्यते नाऽपरः कोऽपि, मध्येऽस्माकं य ईदृशः॥ ८९९ ॥ अभ्यर्थयध्वमभ्येत्य, नाभिं कुलकरोत्तमम् । स वो दास्यति राजानमित्यभाषत नाभिभूः ॥९००॥ राजानं याचितस्तैस्तु, नाभिः कुलकराग्रणीः । भवताभृषभो राजा, भवत्विति जगाद तान् ॥ ९०१॥ अथो मिथुनधर्माणो, मुदिताः समुपेत्य ते । अस्माकं नाभिना राजाऽर्पितोऽसीत्यचिरे प्रभुम् ॥ ९०२॥ ततः वाम्यभिषेकार्थ, तेऽयुनीराय युग्मिनः । सिंहासनं चाऽकम्पिष्ट, त्रिविष्टपपतेस्तदा ॥९०३॥ विज्ञायाऽवधिना राज्याभिषेकसमयं प्रभोः । तत्राऽऽजगाम सुत्रामा, गेहाद् गेहमिव क्षणात् ॥ ९०४॥ सौधर्मकल्पाऽधिपतिः, क्लस्वा काञ्चनवेदिकाम् । अतिपाण्डुकम्बलावत्, तत्र सिंहासनं न्यधात् ॥९०५॥ राज्याभिषेकमृषभस्वामिनः पूर्वदिक्पतिः । देवानीतैस्तीर्थतोयैः, सौवस्तिक इव व्यधात् ॥९०६ ॥ स्वामिना वासयाञ्चके, दिव्यवासांसि वासवः । चारुचन्द्रातपमयानीव नैर्मल्यसम्पदा ॥९०७ ॥ प्रभोर्जगत्किरीटस्य, किरीटादीनि वृत्रहा । रत्नालङ्करणान्यङ्गे, यथास्थानं न्यवेशयत् ॥९०८॥ आजग्मुर्युग्मिनोऽप्यम्भो, गृहीत्वाऽम्भोजिनीदलैः । उदर्घा इव तस्थुस्ते, पश्यन्तो भूषितं प्रभुम् ॥९०९॥ दिव्यनेपथ्यवस्वालङ्कृतस्य शिरसि प्रभोः। न युज्यते क्षेप्नुमिति, तेऽक्षिपन् पादयोः पयः ॥ ९१० ॥ -१ इन्द्रस्य । २ पुरोहितः। * मूर्तच संता ॥ ३ इन्द्रः। OCAUCAUSEUMSAMROSALASS युज्यते क्षेमामा स तस्थुत्तेत न्यवेशयत Jan Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy