SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथमं पर्व द्वितीयः सर्गः ऋषभ ॥६२॥ चरितम् । | भरतादिपुत्राणामुत्पत्तिः। एवं निवर्तितोद्वाहः, प्रभुं नत्वा स्वमाश्रयम् । ययौ समाप्तसङ्गीतो, रङ्गाचार्य इवाद्रिभित ॥ ८८०॥ ततः प्रभृति सोद्वाहस्थितिः स्वामिप्रदर्शिता । प्रावर्त्तत पराय, महतां हि प्रवृत्तयः ॥ ८८१॥ भोगान् वाम्यप्यनासक्तः, पत्नीभ्यां बुभुजे चिरम् । सद्भेदनीयमपि हि, न कर्म क्षीयतेऽन्यथा ॥८८२॥ विवाहाऽनन्तरं ताभ्यां, समं विलसतः प्रभोः । गतेषु किश्चिदूनेषु, पूर्वलक्षेषु पदस्वथ ॥ ८८३ ॥ बाहजीवपीठजीवी, च्युत्वा सर्वार्थसिद्धतः । कुक्षौ सुमङ्गलादेव्या, युग्मत्वेनाऽवतेस्तुः ॥ ८८४ ॥ तौ सुबाहुमहापीठजीवौ सर्वार्थसिद्धतः। च्युत्वा कुक्षौ सुनन्दायास्तद्वदेवाऽवतेरतुः ॥ ८८५॥ चतुर्दश महास्वप्नान्, गर्भमाहात्म्यशंसिनः । तदैव मरुदेवीव, देव्यपश्यत् सुमङ्गला ॥८८६॥ स्वामिनी स्वामिने स्वमान् , कथयामास तानथ । चक्रभृत् ते सुतो भावीत्याख्यत् प्रभुरपि स्फुटम् ॥८८७॥ सूर्यसन्ध्ये इव प्राची, द्युतिद्योतितदिअखे । अपत्ये भरतब्राहयौ, सुपुवेऽथ सुमङ्गला ॥ ८८८॥ अजीजनद् बाहुबलि-सुन्दयौं सुन्दराकृती । सुनन्दा स्वामिनी प्रावृडिव वारिदविद्युतौ ।। ८८९ ॥ देवी सुमङ्गलैकोनपश्चाशतमथ क्रमात् । असूत सुतयुग्मानि, रत्नानीव विदूरभूः ॥ ८९०॥ अवर्धन्त क्रमेणाऽमी, रममाणा इतस्ततः । महौजसो महोत्साहा, विन्ध्याद्रौ कलभा इव ॥ ८९१॥ शुशुभे वृषभवामी, समन्तात् परिवारितः । तैरपत्यैर्महाशाखी, शाखाभिरिव भूरिभिः ॥ ८९२ ॥ तदा च कालदोषेण, प्रभावः कल्पभूरुहाम् । अहीयत प्रदीपानामिव तेजो दिवामुखे ॥ ८९३ ॥ प्रादुरासन् कषायाश्च, मिथुनानां क्रुदादयः । लाक्षाकणा इवाऽश्वत्थपादपानां शनैः शनैः ॥ ८९४ ॥ अथ हाकारमाकारधिक्काराख्यं नयत्रयम् । यतत्रयमिव व्याला, मिथुनान्यत्यलयन् ॥ ८९५॥ ।। ६२॥ Jain Education Intek For Private & Personal Use Only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy