________________
त्रिपष्टिशलाकापुरुषचरिते
प्रथमं पर्व |-द्वितीयः
सर्गः
॥६१॥
ऋषभचरितम् ।
ऋषभप्रभोविवाहोत्सवः।
दृष्टिदृष्ट्या तदानीं च, निर्वातजलनिश्चला । मनसेव मनस्तेषां, परस्परमयुज्यत ॥ ८५१॥ कनीनिकासु तेऽन्योऽन्यं, रेजिरे प्रतिबिम्बिताः । प्रविशन्त इवाऽन्योऽन्यं, हृदयेष्वनुरागतः ॥ ८५२ ॥ ___ इतश्चाऽनुचरीभृय, सुराः सामानिकादयः । पार्थेष्वस्थुः प्रभोमेरोरिख विद्युत्प्रभादयः ॥ ८५३ ।। वधूट्योः पारिपार्विक्यश्चतुरा नर्मकर्मणि । एवं कौतुकधवलान्, गातुमारेभिरे स्त्रियः॥ ८५४ ॥ ज्वरीवाब्धि शोषयितुं, मोदकान् परिखादितुम् । श्रद्धालुरनुवरको, मनसा केन नन्वसौ ? ॥ ८५५ ॥ मण्डकेभ्योऽखण्डदृष्टिः, कान्दुकस्येव कुकुरः । स्पृहयालुरनुवरो, मनसा केन नन्वसौ ? ॥ ८५६ ॥ आजन्मादृष्टपूर्वी किं, वटकान् रोरवालवत् ? । श्रद्धत्तेऽत्तुमनुवरो, मनसा केन नन्वसौ ? ।। ८५७ ॥ तोयानां चातक इव, धनानामिव याचकः । पूगानां श्राद्धोऽनुवरो, मनसा केन नन्वसौ ? ॥ ८५८ ॥ ताम्बूलवल्लीपत्राणां, तृणानामिव तर्णकः । श्रद्धालुरद्याऽनुवरो, मनसा केन नन्वसौ ? ॥ ८५९ ॥ हैयङ्गवीनपिण्डस्य, बिडाल इव लम्पटः । श्राद्धचूर्णस्याऽनुवरो, मनसा केन नन्वसौ ? ॥ ८६० ॥ विलेपनस्य केदारकर्दमस्येव कासरः । श्रद्धां दधात्यनुवरो, मनसा केन नन्वसौ ? ॥ ८६१॥ निर्माल्यानामिवोन्मत्तो, माल्यानां लोललोचनः । श्रद्धानुबन्ध्यनुवरो, मनसा केन नन्वसौ ? ॥ ८६२॥ एवं कौतुकधवलान्, कौतुकोत्कर्णिताननाः । आकर्णयन्तोऽस्थुलेखा, आलेख्यलिखिता इव ।। ८६३ ॥ लोकेषु व्यवहारोऽयं, दर्शनीय इति प्रभुः। विवाद इव मध्यस्थस्तदुपेक्षितवांस्तदा ॥ ८६४ ॥ नावोरिवाञ्चलौ देव्योरञ्चलाभ्यां जगत्पतेः। महाप्रवहणस्येव, बबन्ध बेलसूदनः ॥ ८६५॥ . . हास्यकर्मणि । २ अनुवरको लोके "अणवर" इति प्रसिद्धः। रकबालकवत् । “ देवाः। ५ इन्द्रः।
KAROGRAMOROSAROLORCHOCOLON
॥६१॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org