SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते ॥६ ॥ प्रथमं पर्व द्वितीय सर्गः ऋषभचरितम् । ऋषभप्रभोः पाणिग्रहणम् तयोरारोपयामासुः, पादयो रत्ननपुरौ । झणझणिति कुर्वाणौ, स्तुवन्ताविव तद्गुणान् ॥ ८२२ ॥ सज्जयित्वैवमुत्पाट्य, देव्यौ देवीजनेन ते । नीत्वा मातृगृहस्साऽन्तरासिते काञ्चनासने ॥ ८२३ ॥ विवाहसजीभवनायोपेत्य नमुचिद्विषा । विज्ञप्यमानो निर्बन्धात्, प्रभुर्वृषभलाञ्छनः॥८२४ ॥ दर्शनीया स्थितिौके, भोक्तव्यं भोग्यकर्म च । अस्ति मे चिन्तयित्वैवमन्वमन्यत तद्वचः ॥ ८२५ ॥ [युग्मम् ] अथ स्वामी महेन्द्रेण, स्त्रपयित्वा विलिप्य च । यथाविधि विधिज्ञेन, भूषितो भूषणादिना ॥८२६॥ वेत्रिणेव महेन्द्रेण, शोध्यमानायवर्त्मकः । उत्तार्यमाणलवणः, पार्श्वयोरप्सरोजनैः ॥ ८२७ ॥ इन्द्राणीभिर्गीयमानश्रेयोधवलमङ्गलः । सामानिकादिदेवीभिः, क्रियमाणावतारणः ॥ ८२८॥ गन्धौधैर्वाद्यमानातोद्यः सद्योभुवा मुदा । स्वामी दिव्येन यानेन, मण्डपद्वारमाययौ ॥ ८२९ ॥ खामी स्वयं विधिज्ञोऽथ, यानादुत्तीर्य तत्र तु । अधिवेलेव मर्यादालताभूमाववास्थित ॥ ८३० ॥ तत्र त्रिदशनाथेन, दत्तबाहुर्बभौ विभुः । महीरुहमवष्टम्भ्य, स्तम्बरम इव स्थितः ॥ ८३१ ॥ तटत्रटिति कुर्वाणलवणानलगर्भितम् । सरावसम्पुटं द्वारि, मुमुचुमण्डपस्त्रियः ॥ ८३२ ॥ रूप्यस्थालं च दूर्वादिमङ्गल्यद्रव्यलाञ्छितम् । काऽप्यग्रे धारयामास, राकेव मृगलाञ्छनम् ॥ ८३३ ॥ • पञ्चशाखेन वैशाखं, प्रत्यक्षमिव मङ्गलम् । उत्क्षिप्यार्घाय काऽप्यग्रे, कौसुम्भवसनाऽभवत् ॥ ८३४ ॥ देह्यर्घमर्षदेऽाय, क्षणं म्रक्षणमुत्क्षिप । स्थालादुद्धेहि च दधि, पीयूषमुदधेरिव ॥ ८३५॥ सुन्दरे! नन्दनाऽऽनीतचन्दनद्रवमुन्नय । आहृतां भद्रशालोा , दूर्वा समृदमुद्धर ॥ ८३६ ॥ Jain Education Internati For Private & Personal use only www.jainelibrary.org PF
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy